This page has not been fully proofread.

सरः ] चार्वाकस्य स्वशास्त्रादिविरुद्धभाषिता कारणत्वदूषणान्तरनिरासश्च
 
तत्वमुक्ताकलापः
 
427
 
कादाचित्कस्य कालावधिनियतिकरं पूर्वसत् कारणं
सर्वार्थसिद्धिः
 
तत्वावधारणार्थं वा वादे किं न प्रवर्तसे ।
 
स्वयं वा मानतर्काभ्यां किं न किञ्चित्पररीक्षसे ॥ ३२ ॥
ननु परिवेषा (दिपु ) दौ नियत ( पूर्व ) पूर्वसत् किञ्चिन्न दृश्यते ।
न च घटादिदृष्टान्तेन तदनुमेयं; विपरिवर्तस्य दुवरित्वात् । अतो
दृश्यमाना अप्यवधयः केषुचिद्रसोत्पत्तौ रूपादिवद्यदृच्छासिद्धा
इत्यत्राह — कादाचित्कस्येति । अयं भावः – यदि परिवेषादी-
नामपि कादाचित्कत्वं दृष्टं तत्र निपुणं निरूपयतां देशकाला-
दृष्टविशेषादातपादिकारणविशेषस्सिद्धः । तदनुपलम्भेऽपि संदिग्ध -
आनन्ददायिनी
 
क्षुन्निवर्तनसाधनत्वाभावे ह्यविशेषात् सर्वमुपादीयेत परित्यज्येत वा ।
तथा न क्रियते (इति) । ततश्च स्वक्रियाविरोध इति भावः ॥ ३२ ॥
आक्षेपिकीं संगतिमाह - नन्विति । आदिशब्देन क्षणरुच्यादि-
संग्रहः । नियतपूर्वमिति – यद्यपि सूर्याम्बुदादयस्सन्त्येव तथाऽपि न
तेषामवधित्वं तत्सत्त्वेऽपि तदभावादिति भावः । विपरिवर्तस्येत्यादि-
तद्दष्टान्तेन घटादावेवावधिनैरपेक्ष्यानुमानस्य संभवादिति भावः । यदृच्छा-
सिद्धा इति--अकारणमिति भावः । प्रतिज्ञामात्रं नार्थसाधकमित्यत्राह---
अयं भाव इति । आतपादीत्यादिशब्देन पृथिवीपतिभागादिपरिग्रहः ।
तदनुपलम्भेऽपीति-नच योग्यानुपलम्भादभावनिर्णयः, भर्जनकपालस्थवह्नि-
क (कार)णानामिव तेजःक (कार) णानामप्यनुपलम्भसंभवादिति भावः ।