This page has not been fully proofread.

426
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
गुरुशिष्यादिवाक्यानां परबोधार्थता यतः ॥
तेभ्यश्चैतन्यमित्यादि बढ़ता गुरुणा स्वयम् ।
किण्वादिभ्यः प्रसिध्यन्ती मदशक्तिर्निदर्शिता ॥
प्रत्यक्षाल्लोकशब्दोक्तादधिकं च तदायतम् ।
 
अभाष्यत भवत्पूर्वैः प्रत्यक्षं चार्थसाधकम् ॥
 
[जडद्रव्य
 
अर्थकामौ पुमर्थी च दृष्टोपायैरु (पायावु) (पाधी उ) दीरिती ।
श्रीयसे दूयसे च त्वं विभेषि च ततस्ततः ॥
इष्टं प्राप्तुमनिष्टं च निवर्तयितुमुद्यतः ।
तत्सिद्धौ चरितार्थस्त्वं लोकवर्तिक न मन्यसे ॥
बुभुक्षुरन्नमादत्से व भक्ष्यादि जहासि च ।
परोक्तया प्रतिपद्यर्थं प्रतिब्रूपे जिगीषया ॥
 
आनन्ददायिनी
 
स्त्रभूतसूत्रमारभ्येत्यर्थः । तत्र हेतुमाह गुरुशिष्येति । परबोधनार्थत्वं
परप्रतिपत्तिप्रयोजनकत्वं तच्च साध्यसाधनभावनिबन्धनमिति भावः !
त्वयैव लोकसिद्धकार्यकारणभावस्य दृष्टान्तीकरणादपि विरोध इत्याह-
किण्वादिभ्य इति ! तदीयभाष्यविरोधमप्याह -- प्रत्यक्षादिति ।
अधिकं –-अधिरुपरिभावार्थ: । प्रत्यक्षस्यो ( क्षादु) परिभूतं – फलभूतमि -
त्यर्थः । दृष्टोपाधी — अन्वयव्यतिरेकसिद्धकारणकौ । ततस्तत इति -
प्रीतिदुःखभयहेतुभ्य इत्यर्थः । उद्यतः -- यत्नवान् । तत्सिद्धौ -- इष्टप्रा-
निष्टपरिहारसिद्धौ । चरितार्थ :- प्राप्तप्रयोजनकः । ततः किमित्यत
आह - लोकवदिति । पूर्वोक्तानां सर्वेषां साध्यसाधनभावप्रतिपत्तिनिब-
न्धनत्वात् लोकवत् किमर्थं तन्नाभ्युपगच्छसीत्यर्थः । बुभुक्षुरिति-