This page has not been fully proofread.

सरः]
 
दूषणान्तरनिरासः सत्त्वदूषणस्यासत्त्वेऽपि तुल्याताच 425
 
सर्वार्थसिद्धिः
 
इति । अत्र ' तदसत्ततः' इत्यत्र स्थान 'सदिदं ततः इति पाठ्यम् ।
विशेषणतया उपलक्षणतया वा सत्तासंबन्धिनि नासत्त्वारोपश्श-
क्यत इति ।
 
सत्त्वं च सदसद्वेति विकल्प्यानिष्टकल्पने ।
असत्त्वं सदसद्वेति विकल्प्योत्तरमूह्यताम् ॥
स्वक्रियादिविरोधश्च सूत्रप्रभृति दुस्तरः ।
 
आनन्ददायिनी
 
न भवतीति नसमासः । तथा सत्त्वस्याप्रवेशादसतः कारणत्वं तत
एवायातमित्यर्थः । त्वदुक्तमेव ' तदसत्ततः' इत्यत्र तदसदिति स्थाने
सदिदमिति पदप्रक्षेपेण तव दूषणं भवतीत्याह-अत्रेति । इदं ( कारणं) तत्
सदेवेत्यर्थः : । तदेवोपपादयति – विशेषणतयेति । उभयथाऽपि सत्ता-
यत्वात्कारणस्येति भावः । ननु सत्तायास्सत्ताश्रयत्वेऽनवस्था । तदन। -
श्रयत्वे तस्या असत्वे (न) कारणस्याप्यसत्त्वमित्यत्राह - सत्त्वं चेति
सदसद्वेति - कारणस्यासत्त्वं सन्न वा आद्येऽनवस्था सत्त्वान्तराप-
त्तिश्च । असत्त्वस्यासत्त्वे सत्त्वाश्रयत्वेनाभिमतस्यासत्त्वशून्यतया सर्व-
सत्त्वं स्यात् । द्वितीये तु असत्त्वस्यैवासत्त्वाभावरूप सत्त्वाश्रयतया (त्वात् )
सत्त्वं; अवर्जनीयतया तद्वदेव सर्वस्यासत्त्वमिति भावः । पूर्वोक्तं
स्वक्रियाव्याघातं विशदमाह स्वक्रियादीति सूत्रप्रभृति त्वदीयशा-
 
भावप्रकाशः
 
1
 
'
 
'* सदिदमिति - सत्ताया विशेषणत्वेऽनवस्थायाः स्वपरनि-
वहेन परिहारात् उपलक्षणत्वे सत्त्वेनापाततो व्यवस्थापयितुं शक्यत्वस्य
कदाचित्सत्वे अन्यदाऽपि तदभावो न संभवतीति भावः ।