This page has not been fully proofread.

सरः]
 
हेतुत्वस्य सत्त्वघटितत्वे दूषणपरिहारः
 
423
 
भावप्रकाशः
 

 
अयमाशयः --- अस्ति हि भगवतो व्यासस्य ब्रह्ममीमांसाद्वितीयसूत्रम्
' जस्माद्यस्य यतः' इति । तत्र च सत्ताया विशेषणतयोपलक्षणतया
कारण कोटिविकल्पवत् जन्मादीनामुपलक्षणतया विशेषणतया वा लक्षण
तेति विकल्पेनाक्षेपे समाधानमुच्यते । तत्र च ' यतो वा इमानि
भूतानि जायन्ते' इति श्रुतिमूलम् । इयं च श्रुतिः-
 
उत्पन्नश्च स्थितो नष्ट उक्त लोकोऽर्थतस्त्वया ।
कल्पनामात्रमित्यस्मात् सर्वधर्माः प्रकाशिताः ॥
कल्पनाऽप्यसती प्रोक्ता यथा शून्यं विकल्प्यते ।
निरुद्धादनिरुद्धाद्वा बीजादङ्कुरसंभवः ॥
मायोत्पादवदुत्पादः सर्व एव त्वयोच्यते ।
अतस्त्वया जगदिदं परिकल्पसमुद्भवम् ॥
परिज्ञातमनुत्पन्नमसद्भूतं न नश्यति ।
 
नित्यस्य संसृतिर्नास्ति नानित्यस्य च संसृतिः ॥
स्वप्नवत्संसृतिः प्रोक्ता त्वया तत्त्वविदां वर ॥ (नागार्जुनस्तवे)
यथा माया यथा स्वप्नो गन्धर्वनगरं यथा ।
 
तथोत्पादस्तथा नाशः स्थितिस्तद्वद्भविष्यति ॥ (माध्यमिकवृत्तौ -
 
कारिका)
इति माध्यमिकमतं कटाक्षयति । तत्र भूतशब्दस्सत्ताश्रयार्थकः ।
अत एव कार्यसर्ववस्तुसंग्रहः । जगत्सत्तायां मानं प्रत्यक्षविषयार्थकेदं-
शब्देन दर्शितम् । ' अपितु देवपुत्र परमार्थसत्यं सर्वव्यवहारसमति-
क्रान्तं
 
निर्विशेषमसमुत्पन्नमनिरुद्धमभिधेयाभिधानज्ञेयज्ञानविगतं' इत्या-
र्यसत्यद्वयावतारोक्तं सत्यं यदि साधकादसेत्स्यत् तदा 'इन्द्रियैः '
इत्यादि (बोधि + पं ३७५) कारिका समस्यत । न च तत्र साधकं
किञ्चित् । अतः प्रत्यक्षतो जगतस्सत्ता सिध्यति । एवं कथम
 
'