This page has not been fully proofread.

422
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
आधे तदेव तत्सत्त्वं अन्यथा नियमोsपि न ॥
आनन्ददायिनी
 
न्थानुवादादित्याहुः । तदेव – प्रमितत्वमेव ।
 
-
 
-
 
[जडद्रव्य
 
अबाधितमान-
 
विषयत्वम् । नियतत्वम् च नियमेन सत्त्वं । तथाच सत्त्वघटितं कारण-
त्वमिति सत्त्वशून्यमते कारणत्वं दुर्वचमित्यर्थः । तदुक्तमन्यदपि
 
भावप्रकाशः
 
तस्मादस्तीति संवित्तिर्जायमाना घटादिषु ।
तत्तत्पदार्थसंस्थानपारमार्थ्यावबोधिनी !!
 
सजातीयविजातीयव्यवच्छेदनिबन्धनैः ।
 

 
स्वैस्स्वैर्ह्यवस्थितै रूपैः पदार्थानां तु या स्थितिः ॥
सा सत्ता न स्वतन्त्रान्या तत्राद्वैतकथा कथम् ? ॥
इति । व्यावहारिक सत्यत्वान्मृषात्वेऽप्यविरुद्धता ।
प्रत्यक्षादेरिति मतं प्रागेव समदूदुषम् ।
सर्वज्ञत्वादिवचनप्रामाण्यं व्यावहारिकम् ॥
तात्विकं तु प्रमाणत्वमद्वैतवचसामिति ।
नियामकं न पश्यामो निर्बन्धात्तावकाते ॥
 
इति च । न्यायकुलिशे तृतीयपरिच्छेदेऽपि ----
 
6
 
' पारमार्थ्यं विनाऽर्थस्य न स्वरूपान्तरं भवेत् ।
ज्ञानस्य च स्वभावोऽयं यदर्थप्रवणात्मता ॥
 
एतत्किलोक्तं विश्वमपि दृश्यं जडरूपमेवेति; किमतः ? न हि
जडमिति अपरमार्थपर्यायं लौकिका मन्यन्ते ' इत्युपक्रम्य जडप्रतीतेर-
बाधितविषयत्वं स्थापितम् । अत्राप्युत्तरत्र प्रपञ्चस्य श्रौतो यौक्तिकश्च
बाधो न संभवतीति स्थापयिष्यते । अतोऽत्राविस्तर इति बोध्यम् ।
 
1
 
* नियमोऽपि नेति — अपिना कारणमपि नेति बोधितम् ॥