This page has not been fully proofread.

सरः]
 
1
 
हेतुत्वस्य सत्त्वघटितत्वे दूषपरिहारः
 
सर्वार्थसिद्धिः
 
* प्राक्कालनियतत्वेन कारणं प्रमितं न वा ? ।
 
आनन्ददायिनी
 
421
 
माध्यमिकमतस्थत्वं माध्यमिकमतानुसरणात् । यद्यपि खण्डने—
अन्तर्भूतबहिर्भूतसत्त्वासत्त्वकथा वृथा !
 
इति किञ्चिद्विकृतं पठ्यते ; तथाऽपि उत्तरत्र अन्तर्भावितेति तद्ग-
न्थोपादानात् लेखकाधीनं तद्वैषम्यमिति केचिदाहुः । अन्येतु —
माध्यमिकमतस्थः खण्डनकार उच्यते । उत्तरत्रान्यदपीति खण्डनग्र-
 
भावप्रकाशः
 
एवं परमतभङ्गेऽपीति भावेन प्रकृते दूषणं संगृह्णाति --
 
i
 
-
 
...
 
' * प्राक्कालनियतत्वेनेति श्लोकेन । तदेव प्रमितत्वमेव । तस्य-
कारणस्य सत्त्वम् । ननु अबाधितविषयकज्ञानं प्रमा । तत्र कारणस्य
त्रिचतुरकक्ष्यास्वबाध्यत्वमस्माकमपीष्टम् । कालत्रयाबाध्यत्वं तु न
ज्ञातुमर्हमिति चेत्; अत्र तत्वटीकावाक्यमुत्तरं 'सर्वदा सर्वेषामचा-
धितत्वं दुज्ञानमिति चेत्, ब्रह्मणि कस्समाश्वासः' इत्यादि । ननु
स्वप्रकाशाद्वितीयचैतन्यरूपत्वमेव ब्रह्मणः सत्त्वं, इत्यद्वैतसिद्धावुक्तं ;
अतो न ब्रह्मसत्त्वानुपपत्तिरिति चेत्; अत्रोक्तं शतदूषण्यामाचार्यैः सन्
घट इति प्रत्यक्षस्य घटविषयकत्वस्थापनावसरे- अतस्सच्छब्दार्थः
स्स्वरूपं चेत् घटशब्दार्थोऽपि स्वरूपमेव ' इत्यादि । सिद्धान्ते जात्यन-
ङ्गीकारेण सत्त्वं जडस्वरूपमपि भवितुमर्हत्येवेति को दोष इति भावः ।
आचार्यपादानामाचार्यैः तन्मातुलैर्वादिहंसाम्बुवाहार्येययका लेशेऽप्युक्तं
चतुर्थे परिच्छेदे' स्वरूपमेव हि भावानां सत्पदार्थस्संस्थानमात्रमिति
स्थितमन्यत्र ' इति । श्रीभाप्यकृतां परमगुरुभिः भगवद्यामुनमुनिभिरपि
संवित्सिद्धौ ब्रह्मप्रतिबन्दिमुक्ता अनन्तरमेवमुक्तं-
 
-
 
f