2025-01-21 07:40:22 by ambuda-bot
This page has not been fully proofread.
420
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
हेतुतत्ववहिर्भूतसत्त्वासत्त्वकथा वृथा ॥
इति ; तत्रोच्यते-
आनन्ददायिनी
[जडद्रव्य
र्गतसत्त्वासत्त्वविचारो व्यर्थ इति माध्यमिकमतस्थो (मतैकदेश्यु) क्तं दुरुक्त-
मिति प्रसङ्गाद्दषयितुमनुभाषते - यदत्र माध्यमिकमतस्थैरिति इत्याहुः ।
अस्मिन् पक्षे माध्यमिकग्रन्थ एव किञ्चिद्विषमं खण्डनेनानूदित इति ध्येयं ।
भावप्रकाशः
खण्डने एव ' कथंपुनरसतः कारणत्वमवसेयं प्राक्सत्त्वनियमस्य
विशेषणस्यानभ्युपगमात्; असत्त्वस्याविशेषात् ? इति चेन्न ; इदमस्मा-
नियतं प्राक्सदिति बुद्ध्या विशेषात्, इत्यादिना इयं कारिका विस्तरेण
विवृता । तत्र कालान्तरसंबन्धिन्यास्सत्ताया विशिष्टव्यवहारप्रवृत्तिसमयेऽ-
सत्त्वेऽपि व्यवहारोपपत्तिरतीतादेर्ज्ञानविषयत्वोपपादनावसरे वक्ष्यमाण-
दिशा सुलभा । भवद्भिरपि ' तथाऽपि कालान्तरस्थित्या घटादिकं स्वरूपतो
विशेषणतश्च व्यवच्छिन्नं तद्विज्ञानेन स्वभावबलात् स विशेषणत्वेनो-
पादीयते न त्वेवमत्यन्तासद्भवितुमर्हति तस्य स्वरूपतो विशेषणतश्च
व्यवच्छिन्नतयाऽनङ्गीकारात् कुत्र स्वभावतो विज्ञानं संबन्धि निरूप्येत '
इत्यादिना साधिता ॥
सत्या चेत्संवृतिः केयं ? मृषा चेत्सत्यता कुतः ।
स॒त्यत्वं न तु सामान्यं मृषार्थपरमार्थयो ।
इत्यादिना संवृतिनिराकर्ता भट्टकुमारिलो भवदीयप्रतिवचनक्लेशं
निरर्थकमाधत्ते । संवृतिसत्यव्यावहारिकसत्यशब्दौ न विवक्षितसाधकौ ।
असतः स्वरूपं न संभवतीत्यादिकं बुद्धिसरे (२४२) स्थापयिप्यते ;