2025-01-21 07:40:25 by ambuda-bot
This page has not been fully proofread.
सरः]
त्रिगुणपरीक्षायां हेतुत्वस्य सत्त्वघटितत्वे दूषणं
सर्वार्थसिद्धिः
1 * पूर्वसंबन्धनियमे हेतुत्वे तुल्य एव नौ ।
भावप्रकाशः.
अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः ॥
419
इति निरालम्वनवादे भट्टकुमारिलसिद्धान्तमेव पूर्वपक्षीकृत्य; ' तदन-
भ्युपगच्छतोऽपि चार्वाकमाध्यमिकादेर्वाग्विस्तराणां प्रतीयमानत्वात्
तस्यैव वा अनिष्पत्तौ भवतस्तन्निरासानुपपत्तेः; सोऽयमपूर्वः प्रमाणादि-
सत्त्वानभ्युपगमात्मा वाक्स्तम्भनमन्त्री भवताऽस्यूहितः ; नूनं यस्य प्रभा -
वाद्भगवता सुरगुरुणा लोकायतसूत्राणि न प्रणीतानि ; तथागतेन वा
मध्यमागमा नोपदिष्टाः ; भगवत्पादेन वा बादरायणीयेषु सूत्रेषु भाष्यं
नाभाषि' इत्यारभ्य माध्यमिकमतं परिष्कृत्य, ' एवं च सति सौगतब्रह्म-
वादिनोरयं विशेषः --- यदादिमः सर्वमेवानिर्वचनीयं वर्णयति । तदुक्तं
भगवता लङ्कावतारे-
बुद्धया विविच्यमानानां स्वभावो नावधार्यते ।
अतो निरभिलप्यास्ते निस्स्वभावाश्च देशिताः ॥
इति । विज्ञानव्यतिरिक्तं पुनरिदं विश्वं सदसद्भयां विलक्षणं ब्रह्मवादि-
नस्सङ्गिरन्ते' इति 'तदेवं भेदप्रपञ्चोऽनिर्वचनीयः, ब्रह्मैव तु परमार्थ -
सदद्वयमिति स्थितम्' इति चोक्तम्, तत्प्रघट्टकस्थामिदं कारिकाद्वयम् ।
अतो माध्यमिकमतस्थाः खण्डनकाराः । पूर्वोक्तविशेषसूचनाय खण्ड-
नकारैरित्यनुक्ता माध्यमिकमतस्थैरित्युक्तम् । अत एवाद्वैत सिद्धौ ' तदुक्तं
खण्डनकृद्भिः' इति कारिकाद्वयमुदाहृतम् । * पूर्वसम्बन्धनियमे
इत्यादि –खण्डने अन्तर्भावितसत्तं चेदित्यादिकारिकातद्विवरणानन्तरं
' तस्मात् पूर्वसम्बन्धनियमे' इत्यादिरुपसंहारग्रन्थः । तत्र प्रतिबन्दि-
दूषणापेक्षया प्रथमं तन्मतदूषणमेव प्राधान्यात्कर्तुमुचितमिति भावेन
प्रथममुपसंह।रदूषणम् ॥
1
27%