This page has not been fully proofread.

418
 
1
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
प्रयुक्ताः प्रतिवक्तव्याः प्रतिष्ठितनयस्थितैः ॥
 
* यदत्र माध्यमिकमत स्थैरुच्यते-
 
आनन्ददायिनी
 
[जडद्रव्य
 

 
दुर्निरूपत्वात् पूर्ववृत्तं च कारणं वाच्यम्; पूर्वत्वं च कार्यप्रागभावा-
वच्छिन्नकालत्वम्। प्रागभावत्वं च प्रतियोगिजनकाभावत्वम् ; तथाचात्मा-
श्रय इत्याद्यन्येऽप्युपप्लवाः प्रतिष्ठितनयस्थितैः–सम्यगभ्यस्तन्यायैः पुरुषैः
प्रतिवक्तव्याः——परिहरणीया इत्यर्थः । तत्प्र ( त्परिहारप्र) कारस्तु-
च लक्षणस्यानिर्वचनमात्रेण वस्तुनोऽभावः ; इक्षुक्षीरादिमाधुर्यवैजात्य-
विलोप (त्याभाव) प्रसङ्गात् । प्रतियोगित्वादिवत् स्वरूप संबन्धविशेष-
त्वेनाप्यन्तत उपपत्तेः। अनन्यथासिद्धनियतपूर्ववृत्तित्वा (सत्त्वा) दिना
निर्वच (चनसंभवाच्च) नोपपत्तेश्च । नापि ग्राहकाभावः ; अनन्यथा-
सिद्धान्वयव्यतिरेकादेर्ग्राहकत्वात् । नापि पूर्वत्वनिर्वचनप्रयुक्तदोषः ;
विनाश्यभावावच्छिन्न (श्यभाव) त्वादिना निर्वचनसंभवादिति । ननु
सतः कार्यकारणभावो नोपपद्यते कार्यकारणभावस्य सत्त्वाधीनत्वाभावेन
असत्त्वनियतत्वादिति खण्डनोक्तिमनुवदति – यदत्रेति । अन्येतु ननु
सर्वशून्यवादे कार्यकारणभाव एव न संभवति; शून्यस्य किञ्चिदपेक्षया
पूर्वसत्त्वाभावात् । तथाच भ्रान्तिसिद्धस्यापि कालविशेषे उत्पत्तिः काल-
विशेषे प्रतीतिरित्याद्यनुपपन्नमित्याशङ्कय पूर्वकालसत्त्वमात्रमतिप्रसक्तं ;
नियतसत्त्वविवक्षायां पूर्वकालनियतत्वमेव लाघवादस्तु ; तच्च वादिप्रति-
वादिनोम्समानमेव । सत्त्वं तु गौरवादनन्तर्भूतम् । तथाच कारणत्वानन्त-
भावप्रकाशः
 
1
 
* यदत्रेत्यादि । तत्र खण्डनकारै:-
 
1
 
सर्वथा सदुपायानां वादमार्गः प्रवर्तते ।