This page has not been fully proofread.

सरः ] कार्यावान्तरवैजात्यस्यापि कार्यकारणभावसाधकता दूषणदिक्प्रदर्शनं च 417
 
सर्वार्थसिद्धिः
 
द्युत्पत्तौ सामान्यतो विशेषतश्च हेतुकार्यभावो मन्तव्यः । तत्र
कार्यवैजात्यं न दृश्यत इति चेन्न ; अनुपलब्धवैषम्याणामप्यायुर्वे-
दादिषु शक्तिभेदसिद्धेवान्तरवैजात्यस्य स्वीकार्यत्वादिति ॥
* ' साङ्ख्यसौगतचार्वाकैरन्येऽप्येवमुपप्लवाः ।
आनन्ददायिनी
 
यद्वा-वह्निफूत्कारादिसमवधानस्थले यज्जातीये (तीसमवधाने सति वह्नि-
जाती (यकार्यं) यो (यस्यो ) त्पत्तिः यज्जातीयाभावे वह्निजाती (याभावः )
योत्पत्त्यभावः इति सामान्य कार्यकारणभावः, वह्नित्वावान्तरजातिविशेषा-
वच्छेदेन विशेषकार्यकारणभावश्चेत्यर्थः । अनुपलब्धेति । तृणादिजन्येषु
वैषम्यमुपलभ्यत एव तथाऽप्यनुपलम्भमात्रान्नाभाव इति भावः ।
साङ्ख्येति — कार्यकारणभावस्यानतिप्रसक्तस्य दुर्वचत्वात् ग्राहकस्यापि
 
भावप्रकाशः
 
'* साङ्ख्येति कूटस्थं निर्धर्मकं चिद्वस्तु न कारणम् ; कारणत्वे
आगन्तुकधर्माङ्गीकारस्यावश्यकतया ---
 
उपयन्नपयन् धर्मो विकरोति हि धर्मिणम् ।
 
इत्युक्तदिशा परिणामित्वेन कौटस्थ्यहानिप्रसङ्गात् ' इति साङ्ख्या वदन्ति ।
न सन्नुत्पद्यते भावो नाप्यसन् सदसन्न च ।
 
न स्वतो नापि परतो न द्वाभ्यां जायते कथम् ।
 
इति सौगताः । परमतभङ्गादावेतदुपप्लवशमनं बोध्यम् । अथ
साङ्ख्यवत् चिद्वस्तु न परिणामकारणमिति मते माध्यमिकनयेन
प्रत्यवतिष्ठमानैः खण्डनकारैः खण्डनचतुर्थपरिच्छेदोक्तानां दूषणानां
परिहारः पूर्वमुक्त इति तत्प्रथमपरिच्छेदोक्तदूषणमुद्धर्तुमनुवदति---
 
SARVARTHA.
 
27