This page has not been fully proofread.

416
 
सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे[क्षद्रव्य
 
सर्वार्थसिद्धिः
 
मुपजातमिति जात्युपाधिक्रोडीकृतरूपेण व्यक्तिषु नियमसिद्धेः ।
यथादर्शनं चेयत्तानियमरहितनिरुपाधिनिर्व्यभिचारभूयोदर्शन-
बलेन व्याप्तिसिद्धिवानुमाने वक्ष्यते । नच सर्वस्मात्तादृशात्तादृशं
सर्वमनियतं वा स्यादिति शङ्कनीयं । तथा व्याप्तेरग्रहणात् ।
तद्विरुद्वा च ते प्रार्थना मोधैव । तृणारणिमण्यादिषु च वह्नय-
आनन्ददायिनी
 
-
 
जातमित्यर्थः । जात्युपाधीति – तथाच यद्धर्मावच्छिन्नं प्रति यद्धर्मा-
वच्छिन्नमनन्यथासिद्धनियतपूर्वं तद्धर्मावच्छिन्नं तद्धर्मावच्छिन्नाज्जात-
मिति जात्युपाधिक्रोडीकारेण व्याप्तिग्रहसंभवादित्यर्थः । ननु सहचार-
दर्शनोपाध्यभावनिश्चयव्यभिचारज्ञानविरहाणां व्याप्तिग्राहकत्वं वाच्यं ;
सहचारदर्शनमात्रस्य व्यभिचारिसाधारण्यात् भूयोदर्शनानां त्रिचतुरादि-
भावेनाननुगतत्वात् उपाधेर्योग्यायोग्यरूपत्वेन तदभावस्य दुरवधा-
रणत्वात् भूतभाव्यसन्निकृष्टव्यक्ति (वस्तु) षु व्यभिचारसंदेहेन व्यभिचार-
ज्ञानविरहस्याप्ययोगा न्न (तैः) व्याप्तिग्रह इत्यत्राह --यथादर्शनं चेति
निरुपाधिः- उपाध्यभावनिश्चयः । निर्व्यभिचारः - व्यभिचारज्ञानविरहः ।
भूयोदर्शनं भूयस्सहचारदर्शनमित्यर्थः अनुमान इति – अनुमान -
निरूपणावसरे इत्यर्थः । सर्वस्मात् - दण्डचक्रादितः । सर्वं - घटपटादिक-
मुत्पद्येत । यद्येका सामग्रीति न्यायादेकमेवोत्पद्यते तथासति अनियतो
घटः पटो वा जायेतेत्यतिप्रसङ्गश्च नास्तीत्याह-नचेति । तद्विरुद्धा चेति ।
एतज्जातीयादेतज्जातीयमुत्पद्यत इति व्याप्तिग्रहविरुद्धा सर्वानियतोत्पत्तिप्रा-
र्थनेत्यर्थः। नन्वेतज्जतीयादेतज्जातीयमुत्पद्यत इति व्याप्तिग्रहो नोपपद्यते ;
तृणजातीयाद्वह्निजातीयमिति व्याप्तेरभावात् तदभावेा हि (मण्यादेरपि
वह्निजातीय) दर्शनात् । एवं मण्यादिजातीयादपीति चोद्यं परिहरति-
तृणारणीति । एक (जातीय) शक्तिमत्त्वेन त्रयाणां वह्निजातीये कारणत्वं ।
 
-