This page has not been fully proofread.

सरः ] पौर्वान्नियमौ दुरपलपौ क्षभङ्गानुपपत्तिः अगमस्य प्रमाणता च 415
 
सर्वार्थसिद्धिः
 
अनुमीयेत तत्राऽपि प्रामाण्यमविशेषतः ॥
अस्त्वेवम् ; तस्य नियमो न शक्यः ; अस्मादेवेदमनन्तरमिति ।
तदेतन्नियतपूर्वत्वं हि न जातेर्जातिमपेक्ष्य ! द्वयोरपि त्रैकालिक -
त्वात् । नच जातेर्व्यक्तिमपेक्ष्य ; सर्वासां जातीनां पूर्वत्वेन
कारणनियमासिद्धेः। जात्यन्तरापेक्षया कार्यत्वं न दृष्टमिति चेत्;
किमतः पूर्वमेतजातिकार्यत्वमपि दृएं ? एकव्यक्तेश्च नियमो
दुर्ग्रहः अननुवृत्तेः । कृत्तिकारोहिण्योरपि हृदयभेदेष्वेव व्याप्ति-
गृह्यते । एतेन व्यक्तेर्जात्यपेक्षया व्यक्तयपेक्षया वा पूर्वत्वनियमोsपि
प्रत्युक्त इति अयमप्यनुक्तोपालम्भः ; एततद्धर्मकादेतद्धर्मक-
 
आनन्ददायिनी
अनुमानप्रामाण्यमावश्यकमित्याह-यत इति । यतो लोकात् प्रत्यक्षात् ।
। ।
प्रवृत्तिसामर्थ्यं प्रवृत्तिजनकता । प्रामाण्यसंदेहादिना नोपलभ्यते
तत्राप्यविसंवादिप्रत्यक्षाविशेषात्प्रामाण्यमनुमीयेत ततः प्रवृत्तिः अन्यथा
प्रवृत्तिर्न स्यादिति भावः । अस्त्वेवमिति —–अस्मादेवेदमनन्तरमिति
तस्य कारणस्य नियमो ग्रहीतुं न शक्य इत्यर्थः । तदेवोपपादयति-
तदेतदिति । कारणनियमासिद्धेरिति—–तन्तुजातिः पटकारणमिति
नियमो न सिद्ध्येदित्यर्थः । एतज्जातीति - तन्तुजातीत्यर्थः । एकव्यक्तेरिति
रासभादितुल्यत्वादिति भावः । ननु कृत्तिकाराोहण्यादावेकव्यक्ति-
कत्वेऽपि व्याप्तिग्रहो दृष्ट इत्यत्राह –— कृत्तिकेति । तत्राप्यनयोरुदयानां
भिन्नभिन्नानामनेकेषामेव व्याप्तिर्गृह्यत इत्यर्थः । एतेनेति — एकव्यक्तौ
(क्तेः) नियमस्य (मेन) दुर्ग्रहत्वादि (त्वेने ) त्यर्थः । अनुक्तोपालम्भ इति-
जात्याद्यपेक्षया जन्यजनकभावस्यानुक्तेरिति भावः । तर्हि किमुक्त-
मित्यत्राह—एतद्धर्मकादिति । दण्डत्वादिधर्मकात् घटत्वादिधर्मकं