2025-01-21 07:40:14 by ambuda-bot
This page has not been fully proofread.
414
सर्वार्थसिद्धिसहिततत्वमुक्ताकलापः
[ जडद्रव्य
सर्वार्थसिद्धिः
क्रमेणोपाधिभिर्योगस्साकल्येनांशतोऽपि वा ।
कालस्य न घटेतेति स्थिरवादी कथं वदेत् ॥
प्रत्यक्षेण वि (प्रत्यक्षप्रति ) रुद्धच क्षणभङ्गपरिग्रहः ।
अपसिद्धान्तमादध्यात् मानमन्यदनिच्छतः ।
अथ लोकायतान्तस्स्थमनुमानं च मन्यसे ॥
आगमोप्यविसंवादी तदन्तस्स्थातुमर्हति ।
य (त्र )तः प्रवृत्तिसामर्थ्यं न लोकादुपलभ्यते ।
आनन्ददायिनी
भ्युपगन्तव्यत्वादिति भावः । कृत्स्नैकदेशविकल्पं परिहरति-क्रमणेति ।
तस्यैकस्य कालस्य क्रमेणोपाधियोगो वक्तुं शक्यः । क्षणिकत्वपक्ष एव
परं वक्तुं न शक्यते । एकेनानेकेषामानन्तर्येण योगः क्रमवदुपाधि-
संबन्धः । न च कृत्स्रैकदेशविकल्पदोषः उभयथाऽपि दोषाभावात् ।
न च सर्वस्यापि पूर्वपरत्वयोः प्रसङ्गेन विभागाभावः ; तत्तत्पूर्वो-
पाधिकाले सर्वस्य पूर्वत्वात् तत्तत्परो (तत्तदप) पाधिकाले सर्वस्य
परत्वाच्च । नचैकदेशासंभवः; सततपरिणामवादिभिरस्माभिस्तद(स्या)
ङ्गीकारे विरोधाभावाच्चेत्यर्थः । ननु क्षणभङ्गाङ्गीकारात् क्रमवदुपाधियोगो
न घटते इत्याशङ्कय किं प्रत्यक्षेण क्षणभङ्गस्वीकार उतानुमानेन ?
इति विकल्पमभिप्रेत्य आद्यं दूषयति – प्रत्यक्षेणेति । प्रत्यभिज्ञारूप-
प्रत्यक्षेण स्थैर्यगोचरेणेत्यर्थः । द्वितीयं दूषयति- अपसिद्धान्तमिति । तव
प्रत्यक्षादन्यस्याप्रमाणत्वादिति भावः । लोकायतान्तस्स्थमिति-लोका-
यतं चार्वाकशास्त्रं तत्रानुमानमप्यन्तर्गतं तथाच नापसिद्धान्त इति
भावः । केचित्तु(अन्येतु)लोकायतान्तस्स्थं - ( लोकायतं तटस्थं ) प्रत्यक्षा-
न्तर्गतमित्यर्थ इत्याहुः । आगमोऽपीति तुल्यत्वादिति भावः । किंञ्च
-