This page has not been fully proofread.

सरः]
 
कारणस्य स्वरूपालाभशङ्कापरिहारः कारणस्य पूर्वत्वनिरूपणंच 413
 
सर्वार्थसिद्धिः
 
वात् । कालान्तरासवेन तुच्छत्वे प्रत्यक्षविषयोऽपि तथा स्यात् ;
तथाचेयं (तथा च ते) माध्यमिकगतिः । अथ ब्रूषे ; पूर्वत्वमेव
कारणस्य दुर्निरूपं पूर्वकालवृत्तित्वं हि तत् ! काले च पूर्वत्व-
मुपाधिकृतम् । स चोपाधिर्यद्ययमेव तदा तदधीनं कालस्य
पूर्वत्वं कालाधीनं चोपाधेरित्यन्योन्याश्रयः । अन्यापेक्षायां
चक्रकं अनवस्थापि । कालस्य क्रमवदुपाधिसंबन्धभेदाद्भेदश्व
कृत्स्नैकदेशविकल्पदुःस्थ इति । एवं ब्रुवता किं पौर्वापर्यमेव न
दृष्टं ? दृष्टमपि वा बाधित ? नाद्यः ; स्वाभ्युपेतलोकव्यवहार-
विरोधात् । न द्वितीयः ; सर्वेषां नित्यत्व तुच्छत्वयोरन्यतर-
प्रसङ्गात् । अतः काले सत्यसति वा क्रमस्तावद्दुरपह्नवः-
 
आनन्ददायिनी
 
प्रयोजकं लाघवादित्यत्राह — कालान्तरेति । प्रत्यक्षविषयस्यापि काला-
न्तरासत्त्वादिति भावः । कृत्स्नैकदशेति -- कालः क्रमादुपाधिभिः
कात्स्वर्येन संबध्यते अथैक (थवैक) देशेन ? न प्रथमः ; सर्वोऽपि कालः
पूर्वो वा परो (रोऽपि ) वेति पूर्वापरविभागो न स्यात् । न द्वितीयः ; एक-
देशाभावादिति विकल्पदुःस्थत्वादित्यर्थः । स्वाभ्युपेतेति - स्वाभ्युपेतव्यव-
हारविरोधो लोकव्यवहारविरोधश्चेत्यर्थः । पूर्वः पर इति व्यवहारस्य
सर्वसिद्धत्वादहेतुकस्य नोत्पत्तिः । 'पूर्वं नैव स्वभावतः ' इति चार्वाक-
व्यवहाराच्चेति भावः । सर्वेषामिति । इदं पूर्वमिदं परमिति पौर्वा-
पर्यविशिष्टप्रतीतिर्दृश्यते ; तत्र विशेषणीभूतपूर्वत्वमात्रबाधे नित्यत्वं;
विशेष्यबाधे विशिष्टबाधे च तुच्छत्वं स्यादित्यर्थः । ननु कालानभ्युपगन्तुः
कथमित्यत्राह - अतः काल इति । कालशब्दवाच्यस्य कस्य चित् तैरप्य-