2025-01-21 07:40:09 by ambuda-bot
This page has not been fully proofread.
412
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकला
[जडद्रव्य
सर्वार्थसिद्धिः
कारणमित्युक्तं स्यत् । दृष्टा च मृदिते मृत्पिण्डे घटोत्पत्तिः ।
तथाच स्वात्मानमलभमानस्य कथं परसाधकत्वम् ? अन्यथा
चिरातिक्रान्तस्य च स्यादेव कारणत्वं । तुच्छस्य च कारणत्वे
कार्यत्वमपि तुच्छं स्यात् नित्यं वेति ; तदपि न ; पूर्वक्षण-
सत्त्वमेव हि कारणस्य कार्योपयोगि ! न च तत्तदा नास्ति !
कार्यक्षणे तु कस्यचिदसत्त्वं न कारणत्वविरोधि । पूर्वं नष्टमित्य -
प्यसाधु ; स्थिरवादे तदयोगात् । पिण्डस्य तु न साक्षात्कार-
णत्वं । न च पिण्डस्तत्प्रध्वंसो वाऽत्यन्ततुच्छ ः ! स्वकाले सहा-
आनन्ददायिनी
पूर्वकाल इत्यादौ पूर्वपदस्यातीतार्थकत्वादर्शनादित्यर्थः । अन्यथेति –
स्वरूपाभावस्योभयत्र तुल्यत्वादिति भावः । तुच्छस्येति-
उपादानसमानस्वभावत्वादिति भावः । तुच्छस्य सार्वकालिकत्वात्
कार्योत्पादे विलम्बात् तुच्छकारणानन्तरक्षणवर्तिप्रागभावप्रतियोगित्वं न
स्यादित्यर्थः । अन्ये तु तुच्छस्य सार्वकालिकतया सार्वकालिक कार्य-
परम्परा स्यादित्यर्थ इत्याहुः । किं कारणमात्रस्य स्वकार्यकालसत्त्वं
वक्तव्यं कारणविशेषस्य वा ? इति विकल्प्य आद्यं प्रतिवक्ति
पूर्वक्षणसत्त्वमिति । द्वितीयं प्रतिवक्ति - कार्यक्षण इति । निमित्त-
स्यासत्त्वं न विरोधि उपादानस्यासत्त्वं विरोध्यप्यत्र नास्तीति भावः ।
तद्वैवोपपादयति--पूर्व (मिति)मेवेति । पिण्डत्वावस्थानाशेऽपि मृद
उपादानस्य सत्त्वादित्यर्थः । पिण्डस्येति - पिण्डावस्थाया इत्यर्थः ।
न साक्षादिति - परिचायकत्व (मात्र) मित्यर्थः । स्वकाले इति
। सार्व-
कालिका सत्त्वमेव हि तुच्छत्वमिति भावः । असत्त्वमात्रमेव तुच्छत्व-