This page has not been fully proofread.

सरः] कार्यकारणभावस्यद्विष्ठत्व प्रत्येकजननशक्तत्वतदभविविकल्पदूषणोद्धारः 411
 
सर्वार्थसिद्धिः
 
समुदिता अपि । न हि नद्यस्समेत्यापि दहेयुः ! नच सिकता-
स्संभूय तैलं जनयेयुः ! शक्तानामेव संभूयकरणे सर्वे कृतकराः
स्युः । शक्तस्य कुर्वतोप्यन्याकाङ्क्षायां सर्वैरपि स्यात् । तथाच
देशादिव्यवहितानामसन्निधेः कथ कार्यारम्भः । नहि कार्ये
कारणानां साध्यांशभेद: ! विभक्तदशायां समुदाये वा तस्या-
दृष्टेः । निरंशे गुणादौ च दुर्वचमेतदिति, अत्रोच्यते—
समुदितानां कार्यकरत्वमेव हि प्रत्येकमपि हि शक्तिः ! कथमत्र
वियुक्तैः कार्यकरणं ? कथं च समेतेषु कृतकरता ? अतरशक्त-
स्यापि सहकार्याकाङ्क्षायामतिप्रसङ्गश्च निरस्तः । यावत्कार्यसिद्धि
नियतविषयत्वात्तस्या इति । ननु पूर्व कारणमित्युक्ते नष्टं
 
आनन्ददायिनी
 
दूषयति —— शक्तानामिति । एकस्यापि शक्तत्वेन कार्यस्य करणादित-
रैरपि तस्य करणे कुतः करणत्वमितीतर (कृतकरत्वमिति सहकारि )
वैयर्थ्यमिति भावः । सर्वैरपि स्यादिति – अविशेषादिति भावः ।
-
अस्तु को दोष इत्यत्राह ——- तथाचेति । एकघटव्यक्तयुत्पत्तौ दण्डादि-
कारणताव(त्पत्तिस्थदण्डत्वादिकारणत्वाव) च्छेदकावच्छिन्नयावद्भिर्भवित -
व्यमिति देशादिव्यवहितानां सन्निध्यसंभवादुत्पत्तिरेव न स्यादित्यर्थः ।
• ननु सन्निहितं कारणं कार्ये कञ्चिदंशं जनयति असन्निहितं च यदा
सन्निधास्यति तदेतरांशं जनयतु कथं कार्यानारम्भ इत्यत्राह—–—नहि
कार्ये इति । एतदिति - जन्यजनकत्वमित्यर्थः । यावत्कार्यसिद्धीति-
एककार्यनिरूपितानि यावन्ति कारणतावच्छेदकानि प्रत्येकं ताव-
दवच्छिन्नयत्किञ्चित्सत्त्व एव कार्यदर्शनादिति भावः । नन्विति -
 
;