This page has not been fully proofread.

410
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
सर्वार्थसिद्धिः
 
वत्वे वटत्वनीलत्वादिवत् सर्वं प्रत्यपि स्यातां; अस्वभावत्वे
कस्यचिदपि न स्यातामित्यपि नियतप्रतिसंवन्धिकस्वभावत एव
तदुभयसिद्धेर्निरस्तं । दण्डादिकार्यत्वं घटादिकारणत्वं वा
नीलादिवदेव पुरुषभेदेऽप्यविपर्यस्तमेव । अथ स्यात् ; कार्यकारण-

भावस्य द्विष्ठत्वे द्वयोरपि द्वैरूप्यादविशेपविरोधभेदापत्तयस्स्युः ।
एकस्थत्वेऽपि यंत्रैकस्मिंस्तत्रैवमिति ; तत्र ब्रूमः कार्ये कार्यत्वं
कारणे कारणत्वं च वर्तते ; तथाऽप्यन्योन्यनिरूप्यतया संबन्ध-
व्यवहारादिसिद्धिरिति । स्यादेतत् ; न तावद्दण्डादयो मृदाद्यव-
यवाश्च प्रत्येकं घटाद्युत्पादनशक्ताः ; अदर्शनात् । अत एव न
 
आनन्ददायिनी
 
संभवति । स्वभावत्वव्याघातादिति भावः । अस्वभावत्वे इति—
तद्धर्मत्वाभाव इत्यर्थः । नियत प्रतिसम्बन्धिकेति — कार्यकारणत्वे स्वभा-
 
1
 
वावेव ।
। नचातिप्रसङ्गः ; 'संयोगादिवत्प्रतिसंबन्धिनियमादित्यर्थः ।
स्वभावत्वमेवोपपादयति-- दण्डादीति । यथा नीलादिकं धर्मिविशेष-
नियतमपि तस्य स्वभावः पुरुषविशेषनियतं च न भवति तद्वदित्यर्थः ।
विपर्यस्तं----विपरीतं तदन्यदिति यावत् । अविशेषेति --- कार्यस्यापि
कारणत्वं कारणस्य कार्यत्वं कार्यकारणयोस्स्वस्वापेक्षया पूर्वभावित्वपश्चा-
द्भावित्वरूपविरोध एकस्यैव कार्यकारणरूपेण भेदश्च स्युरि(स्यादि)त्यर्थः ।
एकस्थत्वेऽपि——कार्यकारणयोरन्यतरमात्रवृत्तित्वेऽपि । यत्रेति — यत्र
कार्यकारणभाववै(भावाद्वै)रूप्यं तत्र उक्तदोषाः स्युरित्यर्थः । ननु मृदादय-
इशक्ताः कार्यं जनयन्त्यशक्ता वेति विकल्पमभिप्रेत्य द्वितीयं दूषयति-
न तावदिति । अशक्तानां जनकत्वं व्याहतमिति भावः । आद्यं