2025-01-21 07:40:00 by ambuda-bot
This page has not been fully proofread.
सरः] किञ्चित्कारित्व कुवत्त्वतनिर्व्यापात्व तदभाव विकल्पदोषोद्धारः परानिष्टंच 409
-
सर्वार्थसिद्धिः
अत्राऽपि ब्रूमः — यत्र किञ्चित्कारेणा हेतुत्वं दृष्टं यथा काष्टादेर्ज्या-
लादिना ; तत्र तथा । नचानवस्था; हेतुसंपत्तिपरम्पराया अदोष-
त्वात् ; अतिरिक्तस्यात्रानिरूपणात् । यत्र तु द्वारनिरपेक्ष हेतुत्वं
तत्रापि दर्शनबलात् किञ्चित्कारान्तरं न जनयितव्यं यतोऽनवस्था
स्यात् । न चातिप्रसङ्गः ; नियतपूर्वत्वग्राहिणा प्रत्यक्षेणैव तन-
वारणात् । अन्यथा तदपि ते प्रमाणं न स्यादिति विश्वापह्नवः ।
यच्च कार्यं कुर्वतोऽकुर्वतो वा कारणत्वम् ? आद्ये कार्यस्यापि पूर्व-
सिद्धिप्रसक्तया कार्यत्वाभावः ; द्वितीये विरोधातिप्रसङ्गाविति ;
तदप्यपष्टु ; भाविकार्यनुगुणव्यापारवत्त्वमेव कारणस्य कुर्वत्वं ।
तत्र कथं कार्यस्य स्वस्मात्पूर्वसिद्धि: ? कुर्वन्वनिरूपणं तु भाव-
नापि कार्येण बुद्धयारोहिणा सिध्येत् । एतेन निर्व्यापारस्स-
व्यापारो वा हेतुरित्याद्यपि दत्तोत्तरं । कार्य (त्व) कारणत्वयोस्स्वभा-
आनन्ददायिनी
अकिञ्चित्कुर्वतोऽपि जनकत्वे विशेषाभावात्तन्तुभिरपि घट उत्पद्येतेत्यर्थः ।
अतिरिक्तस्येति—हेतुसम्पत्तिपरम्परातिरिक्तस्येत्यर्थः । अन्यथेति-
प्रत्यक्षस्य नियामकत्वाभावे प्रत्यक्षमात्रप्रमाणवादिनस्तवार्थसिद्धिरेव न
स्यादित्यर्थः । आद्ये कार्यस्यापीति — कृतिनिरूपकस्य कर्मणोपि
प्राक्सत्त्वनियमादिति भावः । द्वितीये इति अकुर्वतो जनकत्व -
रूपकुर्वत्त्वं विरुद्धं कृतिमत्त्वाभावेऽपि जनकत्वे सर्वं सर्वस्य कारणमित्य-
तिप्रसङ्गश्चेत्यर्थः । अपष्ठ – असारं । एतेनेति – पूर्वत्र कृतिरूपव्या-
पारविशेषः अत्र क्रिया (कृति) रूप साधारणव्यापारमात्रमिति भेदो
ज्ञेयः । स्वभावत्वे इति — न हि घटस्वभावः कस्यचित् कस्यचिन्नेति
----