2025-01-21 07:39:58 by ambuda-bot
This page has not been fully proofread.
408
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
सर्वार्थसिद्धिः
यथायथ (यथार्ह) मूह्यम् । ईदृशस्य जन्मन उपादानावस्थान्तर-
साध्यत्वे कारणानवस्थामात्रमापतति । सा च न दोष इति सर्वा-
विगीतम् । यच्च भिन्नत्वे गवाश्वयोरिव कार्यकारणता न स्यात् ;
अभिन्नत्वे च कथं सिद्धस्य साध्यत्वमिति; तन्नः कारणात्कार्यस्य
भिन्नस्योत्पत्ति(दृष्टेः) दर्शनात् ॥
अन्यथा बुद्धिबोध्यादौ भिन्नत्वादिविकल्पतः ।
बोध्यत्वादिक्षतेर्न स्यात् स्वमतस्थापनाऽपि वः ॥
अथ किञ्चित्कारेणाकिञ्चित्कारणे वा कारणत्वं ? पूर्वत्र हेतूनां
किञ्चित्कारजन नेsपि किञ्चित्कारान्तरापेक्षयाऽनवस्था । किञ्चि-
त्कारस्यापि किञ्चित्कारजननापेक्षया ; उत्तरत्रातिप्रसङ्ग इति ।
आनन्ददायिनी
वस्थासामानाधिकरण्येन ध्वस्तो घट इति व्यपदेश इत्यर्थः । ननूपादा-
नावस्थाया जन्मत्वेऽपि प्रागसत्त्वेन साध्यत्वादनवस्था स्यादित्यत आह-
ईदृशस्येति । सर्वाविगीतमिति — बीजांकुरादौ तथा दर्शनादिति भावः ।
अन्यथेति—–दर्शनस्यानियामकत्वे इत्यर्थः । घटवुद्धिर्घटाद्भिन्ना न वा ?
आद्ये पटवत् तद्विषया न स्यात् । द्वितीयेऽपि स्वयं तद्विषया
न स्यात् 1 बोध्यं बुद्धिसंबद्धं प्रकाशते असंबद्धं वा ?
आद्येऽपि स संबन्धस्संबद्धोऽसंबद्धो वा ? प्रथमेऽनवस्था; द्वितीये
संबन्धस्यासंबद्धत्वे तन्मूलकबोध्यसंबन्धस्याप्यभावेन प्रकाशाभा-
वादिति प्रसङ्गयोः प्रसङ्गः ; अत एवाद्यद्वितीयोऽपि नेत्यादि
(त्याद्य) विकल्पसंभवादिति भावः । किञ्चित्कारः — व्यापारविशेषः ।
प्रकारान्तरेणाप्यनवस्थामाह — किञ्चित्कारस्यापीति । किञ्चित्कारस्यापि
कार्यजननार्थं किञ्चित्कारापेक्षयां द्वितीयाऽनवस्थेत्यर्थः । उत्तरत्रेति-