2025-01-21 07:39:53 by ambuda-bot
This page has not been fully proofread.
सरः] पश्चाद्भवितुः कारणप्राप्तयुपपत्तिः जन्मनोजन्यत्वाजन्यत्वविकल्पदूषणोद्धारश्च 407
सर्वार्थसिद्धिः
अनङ्गत्वात् ; ततश्च नातिप्रसङ्गः नियामकस्य सिद्धत्वात् ।
प्रकाश्यदाह्यादिषु च यथादर्शनं कारणानां मिथः प्राप्तिरेवाङ्गं न
तु कार्येण ज्ञानेन सह भस्मादिना वा । यस्तु जन्मनो जन्यत्वा-
जन्यत्वविकल्पेनातिप्रसङ्ग उक्तः ; नासावस्मत्पक्षे दोषः । न हि
वयमभिव्यक्ति वा कारणसमवायादिकं वा जन्मेति भ्रूमः ! किन्तू-
पादानावस्थाविशेषं । तस्य कार्यावस्था सामानाधिकरण्यव्यपदेशः
तादात्म्येन तदाश्रयवृत्तेः । एवं ध्वंसादिसामानाधिकरण्यमपि
आनन्ददायिनी
दावपि कार्यप्राप्तिर्नास्ति किंतु कारणानामेव यथादर्शनं मिथः प्राप्ति-
रिति नातिप्रसङ्ग इत्याह----प्रकाश्येति । नासाविति – चार्वाकोपि घट-
पटादिवस्तुनो न नित्यतामभ्युपैति । किंतु तस्य सादितां निर्हेतुकं
जन्म च । तत्रोक्तो दोषः स्वस्यैव दोषो नास्मत्पक्ष इति (त्यर्थः)
भावः । ननु त्वत्पक्षेऽप्यभिव्यक्तयादिकमुत्पत्तिश्चेद्दोषस्समान इत्याह-
न हि वयमिति । अभिव्यक्तिपक्षे अभिव्यक्तिरभिव्यज्यते न वेत्यादिवि-
कल्पदोषस्यात् । कारणसमवायपक्षेऽपि स सिद्धो न वेत्यादिविकल्पदो-
घस्स्यादित्यर्थः । उपादानावस्थाविशेषमिति – उपादाननिष्ठो यो घटाद्य-
वस्थाव्यवहितप्राक्कालावस्थाविशेषः तमित्यर्थः । यद्वा आद्यक्षणावच्छिन्ना
घटाद्यवस्थैवेत्यर्थः । ननूपादानावस्थाया मृदादिनिष्ठतया घटादिकार्य-
निष्ठत्वाभावात् कथं घटो जायत इति सामानाधिकरण्यव्यपदेश इत्य
त्राह — कार्यावस्थेति । उत्पत्त्यवस्थाश्रयवृत्तित्वाद्व्यपदेश इत्यर्थः ।
तदेव तु कुत इत्यत आह- तादात्म्येनेति । उत्पत्त्यवस्थाश्रयस्य
।
कार्यावस्थाश्रयस्य च तादात्म्यादित्यर्थः । एवमिति—यदवस्थाश्रयवृत्तित्वं
यस्य तस्य तत्सामानाधिकरण्यव्यवहारप्रयोजकत्वमित्यङ्गीकारात् ध्वंसा-
-