2025-01-21 07:39:52 by ambuda-bot
This page has not been fully proofread.
406
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
र्थस्स्यात् । तत्र न प्रथमः ; कस्यापि स्वाभावेन व्याप्तयभावात् ।
अन्यथा शून्यवाद एव स्यात् अनेकान्तवादो वा । न द्वितीयः ;
तदसव एव तद्विशिष्टसिद्धेः । न हि विशेषणसत्त्वं विशिष्टविरोधि !
न तृतीयः ; असत्त्वस्य स्वकालसत्त्वेन विरोधग्रहणात । अन्यथा
देशान्तरसत्त्वेऽपि विरोधप्रसङ्गे (न) स एवान्त्यबौद्धपक्ष स्यात् ।
यत्तु पश्चाद्भाविनः कारणप्राप्तिर्नास्तीति ; तत्र पौर्वापर्यनियम
लक्षणा प्राप्तिर्दृष्टत्वादनिवार्या । संयोगादिलक्षणा तु माभूत्
आनन्ददायिनी
-
-
कार्यत्वस्य प्रागसत्त्वविशिष्टसत्त्वस्वरूपस्य विशेषणं न स्यादिति वा
विशेषणविशेष्योभयं न स्यादिति वा विशेष्यस्वरूपं न स्यादिति वेति
विकल्पार्थः । कस्यापीति — विशेषणस्य प्रागसत्त्वस्याभावः सत्त्वमेव ।
तथाच स्वाभावकाले स्वसत्त्वं स्यादिति प्रसङ्गार्थः । तथाच विरोधेन
व्याप्तयभाव इत्यर्थः । अन्यथा —— प्रतियोगिनः स्वाभावकालिकत्वे ।
एकावच्छेदेन स्वाधारसंबन्धारोप्यकतदधि (स्वाधिकरणत्वाभिमताधि)
करण कव्यासज्यवृत्तिधर्मेतरधर्मावच्छिन्नस्वसमानकालिकाद्यभावप्रतियोगि-
त्वादेः शून्यताप्रयोजकत्वादिति भावः । अनेकान्तेति -- शून्यत्वा-
नङ्गीकारे सत्त्वासत्त्वरूपेणानेकान्तवाद इत्यर्थः । तदसत्त्व एवेति-
प्रागसत्त्वरूपविशेषणसत्त्व एव प्रागसत्त्वे सति सत्त्वरूपविशिष्टसिद्धेरि-
त्यर्थः । न हीति - विशेषणसत्त्वस्य विशिष्टसिद्ध्यनुकूलत्वात् प्रागस-
त्त्वरूपविशेषणं तद्विशिष्टसत्त्वस्य न विरोधीत्यर्थः । अन्यथेति—अस-
त्त्वस्य सत्त्वमात्रविरोधित्वे इत्यर्थः । कार्यस्य कारणप्राप्तिर्वक्तव्येत्यत्र
यथाकथञ्चित्प्राप्तिर्वक्तव्येति उत संयोगादिलक्षणेति विकल्पमभिप्रेत्य
आद्य आह— पौर्वापर्येति । द्वितीये आह-संयोगेति । प्रकाश्यदाद्या-
☐