2025-01-21 07:39:48 by ambuda-bot
This page has not been fully proofread.
सरः]
चार्वाकतर्केषु प्रागसत्त्वकोटिदूषणस्य विरुद्धभाषितत्वं
405
तत्वमुक्ताकलापः
न स्वक्रियादेविरोधात् ॥ ३२ ॥
सर्वार्थसिद्धिः
भसंग्रहः । हेतुश्च साध्यं च हेतुसाध्यं; हेतुना साध्यं वा ।
ईदृशानां तर्काणां युक्ताङ्गहान्यादिकमभिप्रेत्याह – नेति । साधा-
रणदुष्टत्वमाह — स्वक्रियादेरिति । इह तावदनिष्टकोटिभङ्गो न
प्रत्याख्येयः । अन्यत्रैवमुत्तरगतिः - यदत्र पूर्वमसत्त्वे कार्यत्वं न
स्यादिति ; तद्विरुद्धभाषितम् । प्रागसत्त्वविशेषितं सत्त्वमेव हि
कार्यत्वं । तत्र च प्रागसत्त्वे प्रागसत्त्वमेव न स्यादिति वा
तद्विशिष्टं न स्यादिति वा सत्त्वमात्रं न स्यादिति वा प्रसङ्गा-
आनन्ददायिनी
( विकल्पे ) इति (त्यर्थः) भावः । कारणं किञ्चित्कारेण कार्यं जनयति
उत तद्विनेत्यादिविकल्प आदिशब्दार्थः । समाहारद्वन्द्व इत्याह-
हेतुश्चेति । 'तृतीया तत्कृतार्थेन' 'कर्तृकरणे कृता' इति वा
समास इत्याह ——— हेतुनेति । युक्ताङ्गं - प्रागसत्त्वं । अयुक्ताङ्गस्वीकार
आदिशब्दार्थः । अयुक्ताङ्गं च प्राक्सत्वकारणसंयोगादिः । दुष्टत्वं दोषः ।
अनिष्टकोटीति – प्राक्सत्त्वकारणप्राप्तयादिरित्यर्थः । अन्यत्र प्रागसतोऽ-
प्राप्तस्योत्पादने । वक्ष्यमाणा उत्तरगतिः ।
वक्ष्यमाणा उत्तरगतिः । उत्तरगतिमेवोपपाद-
यति—–— यदत्रेत्यादिना । चार्वाकोऽपि घटपटादि नित्यतया तुच्छतया
वा नाङ्गीकरोति । किं तु निर्हेतुकं । तत्र ( तथाच) प्रागसत्त्वमनुमतमे-
वेति स्वमतविरुद्धभाषणमित्यर्थः । प्रकारान्तरेणापि विरुद्धतामाह--
प्रागसत्त्वविशेषितमित्यादिना । प्रागसत्त्वे कार्यत्वं न स्यादित्यत्र प्रसङ्गे