2025-01-21 07:39:49 by ambuda-bot
This page has not been fully proofread.
404
सव्याख्य सर्वार्थसिद्धिसाहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
जन्यं जन्मा यथा वा ? द्वयमसदनवस्थानकार्यक्ष-
तिभ्यां इत्याद्यैः हेतुसाध्यं न किमपि यदि
सर्वार्थसिद्धिः
दने सर्वस्मात्सर्वमुत्पद्येत । प्रकाश्यमप्राप्य वा दीपः प्रकाशयेत्
दाह्यमप्राप्य वा दहनो दहेत् । पुनर्विकल्पान्तरेण विहतिमाह -
जन्यमिति । घटो जायत इत्येतौ तावन्न पर्यायौ सह प्रयोगात् ।
यावद्विनाशं जायत इति प्रयोगप्रसङ्गाच्च । पटो जायत इति
प्रयोगश्च न स्यात् घटपटशब्दयोरपर्यायत्वात् । अतः कार्य-
स्वरूपातिरिक्तं जन्म । तच्च जन्यमजन्यं वेति विकल्प्य द्वयमप्य-
युक्तमित्याह — द्वयमसदिति । क्रमाद्वाधकमाह - अनवस्थानकार्य-
क्षतिभ्यामिति । जन्मनो जन्यत्वं हि जननकर्मतया ! अतस्त-
स्यापि जन्म स्वीकर्तव्यं एवं तस्यापीत्यनवस्था । अजन्यत्वे (तु)
तज्जन्मनोऽनादित्वात् तद्वतो घटादेरपि तथात्वं स्यात् । तथाच
कार्यक्षतिस्यादिति । आदिशब्देन भिन्नाभिन्नत्वादिविकल्पक्षो-
आनन्ददायिनी
यावद्विनाशमिति-—घटस्यैव जनिधात्वर्थ (र्थत्वे) त्वात् तस्य वर्तमान-
त्वात् धात्वर्थवर्तमानकाले वर्तमानप्रयोगस्योचितत्वादिति भावः ।
पटो जायत इति-घट (स्वरूप) स्यैव जन्म (नि) त्वे तस्य पटस्वरूपत्वा-
भावादित्यर्थः । तस्याऽपि जन्मत्वेऽननुगम इति भावः । किञ्च
घटस्वरूपस्यैव जन्मत्वे पटो जायते इति प्रयोगात् पटस्यैव घटात्म-
कत्वं वाच्यं ; तथाच घटपटशब्दयोः पर्यायत्वं च स्यादित्याह---घटपट-
शब्दयोरिति । भिन्नाभिन्नत्वादीति — कार्यं कारणाद्भिन्नमभिन्नं वेति