This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायों कार्यकारणभावापलापक चार्वाक तर्कानुवादः 403
 
तत्वमुक्ताकलापः
 
हेतुप्राप्तिर्न पश्चाद्भवितुः अघटितोत्पादनेऽतिप्रसङ्गः ।
 
सर्वार्थसिद्धिः
 
यदि कार्य कारकव्यापारात् पूर्वमस्ति तदा पूर्वसिद्धगगनादिवत्
किमपि न कार्यं स्यात्। अथ तदा नास्ति तदाऽपि खपुष्पवन्न कार्यम् ।
नचासतस्तत्त्वापादनसंभवः ! नहि नीलं शिल्पि सहस्रेणाऽपि
सितीकर्तुं शक्यमिति । कार्यं च कारणेन सह पूर्व पश्चाद्वा
जायते ? आद्ये किं कस्य कारणं कार्य वा स्यात् । द्वितीये ( ऽपि )
ततः पूर्वस्य कथं तज्जन्यत्वं ? वैपरीत्यापातश्च लोकव्यवहारानु-
रोधात् । तृतीये हेतुः स्वेन प्राप्तं वा साधयेत् अप्राप्तं वा ? आये
प्राप्तत्वादेव पूर्वसिद्धेर्न साध्यत्वं । नचोत्तरकालनिस्य पूर्वकाली-
नेन प्राप्तिः ! उभयस्वरूप सिद्धयपेक्षत्वात्तस्याः । तदिदमाह -
हेतुप्राप्तिरिति । द्वितीयमपि दूषयति- अघटितेति । अप्राप्तोत्पा-
 
आनन्ददायिनी
 
अथ तदेति --- कारकव्यापारात्पूर्वस्मिन् काले इत्यर्थः । किं कारणेन
सह जायते पूर्वं वा पश्चाद्वा जायते ? इति विकल्पक्रमः । आद्ये
इति सव्येतरविषाणवद्विनिगमकाभावा (वात्कार्यकारणव्यवस्था न स्या)
दिति भावः । लोकेति — पूर्ववर्तिन एव लोके कारणत्वव्यवहारा-
दित्यर्थः । पूर्वसिद्धत्वमेवोपपादयति – नचोत्तरेति । तत्र हेतुमाह -
उभयेति । तस्याः—प्राप्तेः सम्बन्धतया सम्बन्धिद्वयपूर्वकत्वादिति
अप्राप्तोत्पादने इति — अविशेषादिति
 
भावः
 
-
 
भावः ।
 
26*