2025-01-21 07:39:40 by ambuda-bot
This page has not been fully proofread.
402
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
तत्वमुक्ताकलापः
सत्त्वेऽसत्त्वेऽपि पूर्वं किमपि गगनतत्पुष्पवन्नैव
साध्यं
।
सर्वार्थसिद्धिः
;
स्यात् । बुद्ध्यादिरर्थक्रियाऽस्त्विति चेन्न ; तस्यानियतत्वात् ।
विनाशस्तर्हि अर्थक्रियास्त्विति चेन्न तस्य ते तुच्छत्वात्
ध्रुवभावित्वेनाहेतुकत्वाभ्युपगमाच्च । एवमन्त्यदीपासचे च
तत्कारणपरम्पराया अपि तथात्वं स्यादिति ॥ ३१ ॥
इति क्षणभङ्गभङ्गः
ननु साध्यसाधन ( हेतुसाध्य ) भावे सिद्धे हि प्रस्तुतं पक्षचतुष्टयं
सिध्येत् ; स एव नास्तीति चार्वाक उत्तिष्ठते – सच्चेऽसत्वइति ।
आनन्ददायिनी
भावादिति भावः । बुद्ध्यादिरिति --- विषयप्रकाशकतया विषयतया वा
बुद्ध्यादिजनकत्वाभावादिति भावः । आदिशब्देन तमोनिरसनादिर्गृह्यते ।
नन्वन्त्यदीपस्य सत्त्वं माभूदित्यत्राह एवमन्त्यदीपादिसत्त्वे इति ।
(तथाच) उपान्त्यस्यान्त्यदीपजनकत्वेन सत्त्वं वाच्यं; अन्त्यस्यासत्त्वे
तुच्छतयोपान्त्यजन्यत्वमेव न स्यात् ; तथाचोपान्त्यस्याप्यर्थक्रियाविरहात्तु-
च्छता ; तथा पूर्वपूर्वेषामपीति दीपपरम्परावत्सर्वक्षणपरम्पराणामपीति
चरमबौद्धपक्ष (पात) स्स्यादित्यर्थः ॥ ३१ ॥
इति क्षणभङ्गभङ्गः
कार्यकारणभावसमर्थनार्थमाक्षेपसंगतिमाह --नन्विति । पक्षच-
तुष्टयमिति वैनाशिकाधवैनाशिकसाङ्ख्यसिद्धान्तिपक्षचतुष्टयमित्यर्थः ।