2025-01-21 07:39:38 by ambuda-bot
This page has not been fully proofread.
सरः] अन्त्यदीपविनाशे सान्वयत्वसाधनं तत्र हेतुदोषोद्धारः अन्ततः परानिष्टंच 401
तत्वमुक्ताकलापः
दुर्दर्शावस्थया स्युः पयसि लवणवत् लीनदीपा-
दिभागाः ॥ ३१ ॥
सर्वार्थसिद्धिः
ईढोपलब्धत्वात् प्रत्यक्षबाधपरिहाराय दुर्दर्शावस्थत्वो (स्थो) क्तिः ।
स्युरित्यनेन दृश्यावस्थानिवृत्तावपि स्वरूपसत्त्वं सूच्यते । ननु
पयसि लवणवदित्ययुक्तं तत्रापि निरन्वयविनाशात् ; तन्न ; रसे-
( रसने )न सूक्ष्मावयवानुमानात् । दीपावयवेषु लिङ्गमपि नास्तीति
चेन्न ; दीपोर्ध्वदोशि(शवर्ति) नां किञ्चिदौष्ण्योपलब्ध्या दीपावयव-
संक्रान्तेस्सुगमत्वात् । प्रभूतदीपपार्श्ववर्तिनां च तापस्वेदादिस्तत
एव । एवमन्त्यदीपनाशेऽप्यदृश्यावयवविसर्पस्सिद्धः । अतो
विनष्टदीपभागानुपलब्धेरदृश्यावस्थानिबन्धनत्वात् अनन्यथासि-
द्धप्रत्यक्षसिद्धः सान्वयविनाशदृष्टान्त एव साधीयान् । अन्त्य -
दीपादश्च यदि न किञ्चिदुपादेयं ततोऽर्थक्रियाविरहाद सच्चं
आनन्ददायिनी
प्रत्यक्षबाधेति । योग्यानुपलब्ध्यभावान्नानुपलम्भमात्रं बाधकमिति भावः ।
विसर्पः——–प्रसरः व्यापनमिति यावत् । ननु विनिगमकाभावात् को
निर्णय इत्यत्राह — अतो विनष्टेति विनष्टदीप (दीपादि )स्थले निरन्वय-
विनाशस्सन्दिग्धः सूक्ष्मत (क्ष्मावस्घ) याऽप्यनुपलब्धिसंभवात् । तथाच
निरन्वयव्याप्तिग्रहो न शक्यः । सान्वयस्य तु घटादिनाशस्थले सन्दे-
हाभावाद्व्याप्तिस्सुग्रहेति भावः । विपक्षबाधकबलादपि निश्चय इत्याह---
अन्त्यदीपादेश्चेति । निरन्वयविनाशाङ्गीकारात् तज्जन्यस्य कस्यचिद-
SARVARTHA.
26