2025-01-21 07:39:31 by ambuda-bot
This page has not been fully proofread.
सरः ] त्रिगुणपरीक्षायां स्वोक्तनिगमनं निरन्वयविनाशपक्षानुवादः 399
तत्वमुक्ताकलापः
दीपादीनां कदाचित् सदृशविसदृशाशेषसंत-
त्यपेते ध्वंसे दृष्टेऽप्यशक्या तदितरविषयेऽनन्वय-
ध्वंस क्लृप्तिः ॥
:
सर्वार्थसिद्धिः
निदर्शनं दूषयति — दीपादीनामिति । आदिशब्देन क्षणरुचि-
बुदुदादिसंग्रहः ।
स निरन्वयनाशस्स्यात् धर्मो धर्म्यपि वा पुनः ।
पूर्वसंघातभागो वा यद्भावेनानुवर्तते ॥
उत्पत्तिश्च तथाभृता निरन्वयसमुद्भवा ।
तावुभौ सर्वभावानां नियताविति सौगताः ॥
आनन्ददायिनी
धनमयुक्तं विनाशस्य सान्वयत्वात् अनृवृत्तांशस्य स्थिरत्वेन बाधादित्या-
शङ्कय सर्वत्र निरन्वयविनाश एव न तु कस्यचिदंशस्यान्वयो येन
बाधो देश्येतेति सौगतोक्तं संवादयति--स निरन्वयनाशस्यादिति
धर्मो—गन्धादिः । धर्मी — पाकरक्तस्थले घटादिः । पूर्वसंघातभागः-
घटादिसंघातस्यावयवः तन्त्वादिर्वा यद्भावेन यत्स्वरूपेणानुवर्तते
इत्युच्यते ; तन्न ; कुतः । स निरन्वयनाशस्स्यात् - निरवशेषं नश्यति ;
तथाच नानुवर्तत इति न क्षणिकत्वसाधने बाघ इत्यर्थः । उत्पत्तिश्व
तथाभूता — द्रव्यादेरुत्पत्तिरपि विनाशवदेव । तथाशब्दार्थमेवाह —
निरन्वयेति । पूर्वमवयवाद्यभावेऽपि द्रव्यसमुत्पाद इत्यर्थः । सर्व-
भावानां—सर्वपदार्थानां । सौगताः न्यायचन्द्रिकायां प्रतिपादित-