2025-01-21 07:39:31 by ambuda-bot
This page has not been fully proofread.
सरः] त्रिगुणपरीक्षायां सिद्धान्ते क्षणोपाड्याङ्गीकाराशङ्कापरिहारौ
तत्वमुक्ताकलापः
क्रमवदुपधिवत् स्यात् क्षणत्वं स्थिरेऽपि ॥ २० ॥
सर्वार्थसिद्धिः
397
क्षणिकतोक्तेः । तदेतदभिप्रेत्याह — क्रमवदिति । क्षणत्वं - क्षणो-
पाधित्वमित्यर्थः ।
आनन्ददायिनी
पादीनामेव दृष्टान्तानां सत्त्वादिति चेन्न ; प्रदीपादीनां वर्त्यवयवाग्निसंयो-
गादुत्पत्तिः ततो वर्त्यवयवस्य रूपपरावृत्तिलक्षणो दाहः ततो भस्मीभाव-
लक्षणो नाशः ततो दीपनाश इति सहेतुको नाशो नाशकारणसन्नि-
धानापेक्ष इति नाशकारणानां प्रदीपवत् सर्वत्र नियतकालसन्निधि-
नियमस्य प्रत्यक्षबाधितत्वान्न तादृशं क्षणिकत्वमपि साधयितुं शक्यमिति
भावः । तथाच तत्साधने नियतकालविनाशसामग्रीकत्वमुपाधिरिति
द्रष्टव्यं । तदेतदिति----स्थिरतराणामेव पूर्वोत्तरकालव्यापिनां क्रमो-
भावप्रकाशः.
महेश्वरेण उदाहृतभाष्यस्य क्षणिकत्वनिरसनपरभाष्यस्य च परस्पर-
विरोधो दुष्परिहर इति कथनमज्ञानविलसितमिति सूचितं । साङ्ख्य-
मते प्रसवधर्मि इति (११) कारिकाविवरणसाङ्ख्यतत्वविभाकरे वंशीध -
रेण ' न चैवं धार्म॑णः क्षणिकत्वापत्तिः; अभिव्यक्तितिरोभावावस्थावि-
शेषस्यैव क्षणिकत्वाङ्गीकारात्' इत्युक्तं समाधानं तु पूर्वं (५) ' प्रतिक्षणं
परिणामिनो हि सर्व एव भावाः ऋते चितिशक्तेः' इति तत्वकौमुदी -
विवरणे 'प्रतिक्षणमिति—— धर्माधर्म्यभेदे धर्माणां कालभेदेन व्यावृत्तिद-
र्शनाद्धर्मिणोऽपि प्रतिक्षणं भेद आवश्यक इति भावः' इति स्ववचने-
་་ ་་འ་
नैव निरस्तमिति बोध्यम् ॥