This page has not been fully proofread.

396
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
1
 
[जढद्रव्य
 
ननु क्षणक्षरणस्वभावा प्रकृतिरिति हि भवत्सिद्धान्तः ! अत्र
प्रतिक्षणमुदयविलयिनो विकाराः क्षणिका एवेति तद्दृष्टान्तेन
अन्येषां युष्माभिः किं नानुमीयते ? इति चेत्; अशक्यत्वादयं
सुहृदुपदेशस्त्यज्यते । सर्वक्षणिकत्वं साधयितुमुपक्रम्य स्थिर-
द्रव्यवृत्तिक्षणिकविकारवदिति कथं दृष्टान्तयेम ? तेषु चन
त्वदभिमतं क्षणिकत्वं ; प्रदीपादिवत् ' आशुतरविनाशित्वमात्रेण
आनन्ददायिनी
 
षष्ठीसमासः । नन्विति––'नित्या सततविक्रिया' इत्यङ्गीकारात् पूर्व-
पूर्वविकाराणामुत्तरोत्तरविकारसमये नाशदिति भावः 1 सर्वेति
तथाचैकदेशबाधो व्यभिचारश्चेति भावः । दृष्टान्तयेमेति दृष्टान्तं कुर्यो
इत्यर्थः । तेषु -- प्रकृतिगतविकारेषु । न त्वदभिमतमिति - उत्पत्त्यनन्तर-
क्षणविनाशित्वरूपं क्षणिकत्वमित्यर्थः । तथाच दृष्टान्तस्य साध्यवैक-
ल्यमिति भावः ! प्रदीपादिवदिति - ननु तादृशं क्षणिकत्वं साध्यमस्तु;
 
भावप्रकाशः
 
प्रदी-
 
1 * भवत्सिद्धान्त इति - जिज्ञासाधिकरणभाष्ये ' यच्चान्यथा-
त्वमिति' - यद्वस्तु प्रतिक्षणमन्यथात्वं याति तदुत्तरोत्तरावस्था प्राप्त्या
पूर्वपूर्वावस्थां जहातीत्याद्युक्तेरिति भावः । न हि वस्तुस्वभावानुविधा
यिन्यो वाचः । किं तर्हि ? वक्तुरिच्छामनुविदधति । अत उत्पादा-
नन्तरस्थायिस्वरूपं क्षणशब्दार्थ इत्यादिः बौद्धानां परिभाषा अप्रा-
त्रिंशत् क्षणः' इत्यादिकोशेषु क्षणशब्दस्य कालविशेषवाचित्वाभि-
माणिकी । अनुभवविरोधेन सर्वजनासंगतत्वात् । अत एव ' तास्तु
धनं संगच्छते । अतः क्षणिकशब्दो न वौद्धमतैकतान इत्यभिप्रे-
त्याह - 2 * आशुतरविनाशित्वमात्रेणेति । एतेन विरोधवरूथिन्यां उमा-