This page has not been fully proofread.

सरः ]
 
त्रिगुणपरीक्षायां पूर्वोक्तदृष्टान्तासिद्ध्युपपादनं
 
395
 
सर्वार्थसिद्धिः
 
योऽपि तावत्परासिद्धः स्वयं सिद्धोऽभिधीयते ।
भवेत्तत्र प्रतीकारः स्वतोऽसिद्धे तु का क्रिया ?
अनन्यावच्छेदे(दार्थे)न स्वरूपेणैव कश्चित् क्षणशब्दवाच्य इति
चेत् ; तर्हि क्षणभङ्गसाधनात्पूर्वमसिद्धः कथं दृष्टान्तस्स्यात् ?
उत्तरप्रागभावाप्तपूर्वध्वंसैककालतः ।
 
मध्यमक्षणतादृक्तं व्यवस्थाप्यं त्वयाऽप्यतः ॥
 
आनन्ददायिनी
 

 
धनमुखेन प्रतिक्रिया परिहारश्च संभवति । स्वतोऽसि(द्धौ)द्धे स्वमत एवा-
सि(द्धौ) द्धे । का प्रतिक्रिया — कः प्रतीकारः ? । स्वमतासिद्धस्याप्यभ्युप-

गमे अपसिद्धान्ता(पाता)दित्यर्थः - स्वत इति । सार्वविभक्तिकष्षष्ठ्यर्थे
तसिः । अनन्यावच्छेदेनेत्यस्य विवरणं— स्वरूपेणैवेति । कालरूप-
वस्त्वपि मास्तु ; तस्य कश्चिदुपाधिरपि माभूत्; किन्तु स्वरूपेणैव
सिद्धेषु कश्चित् क्षणो भवतु - स एव क्षणिको दृष्टान्तोऽस्त्वित्यर्थः ।
तर्हीति – तादृशक्षणिकः क्षणशब्दवाच्योऽनुमानात्साधनीय इति भावः।
क्षणिकत्वसिद्ध्यनन्तरमेव तादृशक्षणसिद्धिमुपपादयति — उत्तरेति । क्षण-
सन्ततीनां मध्ये मध्यमः क्षणः पूर्वक्षणध्वंसोत्तरक्षणप्रागभावाभ्यामेक-
कालो भवति । तदेककालत्वमेव क्षणत्वं अतिप्रसङ्गाभावादिति त्वयाऽपि
वाच्यं । तच्च क्षणिकसन्तान सिद्ध्यपेक्षं क्षणिकत्वसाधकानुमानादेव
सिद्ध्यतीति न ततः पूर्वं सिद्ध्यतीत्यर्थः । मध्यमक्षणस्य तादृ ( क्तुं)
शत्वं क्षण (णिक) त्वं । ' तदशिष्यं संज्ञाप्रमाणत्वादिति' ज्ञापकात्