2025-01-21 07:39:26 by ambuda-bot
This page has not been fully proofread.
394
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
व्यापिनोरक्षणिकत्वात् तदवच्छिन्नस्य कालस्य तु क्षणत्वादेव
न क्षणिकत्वमिति वस्तुस्थितिः । त्वत्पक्षे तु कालावच्छेदः क्षणो-
पाधिरसिद्धः कालस्यैवाभावात् । नचासिद्धोऽपि साध्यः स्वम-
तविरोधात् । यथाऽऽहुः -
आनन्ददायिनी
लव्यापी प्रागभावः ऊर्ध्वव्यापि चरमकारणमित्यर्थः । तथाच तदवाच्छ-
न्नकालस्य क्षणत्वेऽपि तयोर्न क्षणिकत्वमित्यत्राह —तदवच्छिन्नस्येति ।
तथाच सिद्धान्तिमतानुसारेण दृष्टान्तासिद्धिरिति भावः । ननु सिद्धा-
न्तिमते कालः क्षणलवादिपरिणामवानित्युक्तत्वात् स्वरूपेण क्षणरूप-
परिणामोऽङ्गीकृतः । न च तस्योपाध्यवच्छिन्नकालत्वं ; येनोक्तरीत्या
स्थिराणामवच्छेदकत्वमुच्येत । अत एव सिद्धान्त्यभिमतदशावत्त्वेन
द्रव्यलक्षणवत्त्वात्कालस्य द्रव्यत्वं । तथाच तादृशक्षणावस्था दृष्टान्त-
स्स्यादिति कथं दृष्टान्तासिद्धिरिति चेत्; अत्र केचित् — कालस्व-
रूपस्य न पारंणामः । न च क्षणलवादिपरिणामवानित्युक्तिविरोधः
उपाध्यवच्छेदस्यैव परिणामशब्दार्थत्वात् । न च द्रव्यलक्षणानुपपत्तिः
संयोगादिसम्बन्धस्यैवावस्थाशब्दार्थत्वात् । तथाच दृष्टान्तासिद्धिरित्याहुः ।
अन्ये तु — कालस्यास्तु परिणामः तथाऽपि क्षणिकत्वसाधकानुमाने
कालोपाधित्वस्योपाधित्वात् सोपाधिकतया न सत्त्वहेतोः साध्यसाधकत्व-
मित्याहुः । पूर्वपक्ष्यनुसारेणापि दृष्टान्तहानि ( दृष्टान्तासिद्धि) माह-
त्वत्पक्षे त्विति । स्वमतविरोधः – अपसिद्धान्त इत्यर्थः । यद्वा स्वो-
क्तिविरोध इत्यर्थः । तत्र तदुक्तिमाह--- यथाऽऽहुरिति । वादिप्रति-
वादिनोर्मध्ये प्रतिवाद्यसिद्धं स्वयंसिद्धं स्वमतसिद्धं पक्षदृष्टान्तादिरूपे-
णाभिधातुं शक्यं । तत्र प्रतिवाद्यसिद्धिशङ्कायां तत्सा (द्धिशङ्काभावात्सा)