2025-01-21 07:39:26 by ambuda-bot
This page has not been fully proofread.
सरः ] त्रिगुणपरीक्षायां संघशब्दार्थः पूर्वोक्तदृष्टन्तासिद्ध्युपपादनं च
सर्वार्थसिद्धिः
393
द्धेतोः सङ्घभावः सोऽपि स्थिरतरः । यस्तु चरमस्सहकारी
स च स्थिर एव सन् स्वकार्यप्रागभावोपहितरूपः कालमव-
च्छिन्दन् क्षणोपाधिरित्युच्यते । तदुपधानं च तस्य प्रत्यक्षादि-
सिद्धं । न चात्र क्षणिकं किञ्चित् सिध्यति ! अनवच्छिन्नस्य
कालतत्वस्य कालपारच्छेदलक्षणानित्यताभावात्-
क्रियादिश्च स्थिरोऽप्येवं क्षणोपाधिर्विशेषकैः ।
तत्प्रकर्षनिकर्षैस्तु तत्तत्कालप्रकल्पना ॥
इयं तावत् सर्वलोकसाक्षिकी; क्षणकालावच्छेदकयोः प्रागूर्ध्व-
आनन्ददायिनी
दृष्टान्ततेत्यर्थः : । तथाच यत्किञ्चित्कार्यचरमकारणतत्प्रागभावावच्छिन्न-
कालत्वं क्षणत्वमिति पर्यवसितोऽर्थः । तदुपधानं -- तत्प्रागभावोपधानं ।
तय
-
-चरमकारणस्य । ननु क्षणकाल एव दृष्टान्त इत्यत्राह--
अनवच्छिन्नस्येति । तत्र किमवच्छिन्नः क्षणो विवक्षितः उत काल-
स्वरूपमात्रं ? नाद्यः ; क्षणश्च कालः उपाधिस्तत्संबन्धश्चेति त्रयमेव ।
तत्र प्रागभावचरमकारणयोः स्थिरत्वात् तत्संबन्धोऽपि स्थिर एव ।
तत्र कालस्वरूपं च स्थिरमेव । न द्वितीयः ; अवच्छिन्नस्य कालस्वरूप-
मात्रतया तस्य नित्यत्वादिति भावः । ननु काले कालसम्बन्धाभावात्
कथं तस्य नित्यत्वं ? इत्यत्राह — कालपरिच्छेदेति । वस्तुनो ह्यनित्य-
त्वाभावे नित्यत्वभावः । एवं सामग्रीवत् क्रियाऽपि किञ्चिदवच्छिन्ना
क्षणोपाधिरित्याह- क्रियादिश्चेति । अदिशब्देन अवस्थाऽपि विवक्षिता ।
तत्प्रकर्षनिकर्षेः – क्रियारूपक्षणोपाधिप्रकर्षनिकर्षैः - अधिकन्यूनभावैः ।
यद्वा — क्षणप्रकर्षनिकर्षैः दिवसमासवत्सरादिकल्पनेत्यर्थः । क्षणका-
लावच्छेदकयोः — कार्यप्रागभावचरमकारणयोः । प्रागूर्ध्वेति — प्राक्का-