2025-01-21 07:39:24 by ambuda-bot
This page has not been fully proofread.
392
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
तद्धेतुसंघः नचासौ हेतुर्नान्यः स्थिरास्ते
सर्वार्थसिद्धिः
रिक्तोऽप्यक्षणिकः क्षणोपाधिर्न स्यादित्यत्राह — नचेति । अयं
भावः – सङ्घशब्दो न सम्बन्धमात्रवाचकः सम्बन्धशब्दपर्या-
यत्वाप्रसिद्धेः । न च तत्तत्सम्बन्धिस्वरूपवाचकः प्रत्येक-
मप्रयोगात् । अतः केनचिदुपाधिना सङ्गृहीतास्त एव सङ्घ-
शब्दार्थः । तत्र यदि त एव क्षणोपाधितया दृष्टान्तक्रियन्ते
तथासति — स्थिरास्त इति । ननु तत्संहतिहेतुरुपाधिदृष्टान्त-
स्स्यात् ? मैवम् ; न हि नः केवलनित्यात् केवलानित्याद्वा
कस्यचित्कार्यस्योत्पत्तिः! किं तु तत्समुदायात् । तत्र नित्यांशे
तावत् क्षणिकशङ्काऽपि नास्ति । अनित्येऽपि यतश्चिरोत्पन्ना-
आनन्ददायिनी
अयं भाव इति । संबन्धशब्देति - संयोगादौ (गादिमात्रे) संघशब्दाव्यवहा-
रादिति भावः । अत इति । केन चित् देशाद्युपाधिना प्रयोजकेन संगृहीताः
अवच्छिन्नाः । त एव – संघातिन एव संघशब्दवाच्या इति नियमत-
स्तत्रैव व्यवहारादिति भावः स्थिरा इति । तथाच दृष्टान्तासिद्धि-
रिति भावः । नन्वीति-संहतिहेतूपाधेः क्षणिकत्वाभावे तदवच्छिन्नस्या-
क्षणिकतया क्षणोपाधित्वं न स्यादिति संहतिहेतूपाधिः क्षणिको वाच्यः ।
तथाच स दृष्टान्तस्स्यादिति भावः । मैवमिति —–सङ्घातप्रयोजकं कार-
णेषु किमिति विचारे तत्र प्राप्ताप्राप्तविवेचने चरमकारणमेव । तच्च
उत्तरकालस्थायित्वात् स्थिरमेव । न च क्षणोपाधित्वानुपपत्तिः स्वकार्य-
प्रागभावसहितस्य क्षणावच्छेदकत्वात् । तयोः स्थिरत्वान्न कस्यापि