2025-01-21 07:38:57 by ambuda-bot
This page has not been fully proofread.
सरः]स्वमते व्याप्यत्वासिद्धे. रन्याथासिद्धेश्च साधकबाधकत कैंपरदृष्ठान्तासिद्धिश्च 391
तत्वमुक्ताकलापः
दृष्टान्तहानिः स्थिर इति विदितो यत् क्षणस्या-
प्युपाधिः । सामग्री कार्यशून्या क्षणः इयमपि
सर्वार्थसिद्धिः
सन्ततिकल्पनम् ; तस्य प्रवृत्तिविज्ञानेन सह सर्वप्रकारसम्बन्धा-
योगादिति । अथ क्षणोपाधिवदित्युक्तं प्रतिवक्ति — दृष्टान्तहा-
निरिति । अक्षणिकत्वे कथं क्षणोपाधिरित्यत्र गूढाभिप्राय आह-
सामग्रीति । कार्यशून्या — कार्य प्रागभावसमन्वितेत्यर्थः । क्षणः-
क्षणोपाधिरिति यावत् । तथाऽपि तस्य क्षणिकत्वं न प्रतिक्षिप्त-
मित्यत्राह — इयमपीति । ननु हेतूनां सङ्घोऽपि हेत्वनतिरि-
तश्चेत् तेषां भवत्पक्षे स्थिरत्वात् न क्षणोपाधित्वं । अति-
आनन्ददायिनी
क्रियते तस्य चेत् क्षणिकत्वमभ्युपैषि तदा प्रवृत्तिविज्ञानेन सम्बन्धा-
भावान्नियमासिद्धेस्सर्वस्य प्रवृत्त्यप्रवृत्तिप्रसङ्गतादवस्थ्यात्तदङ्गीकारो व्यर्थ
इत्यर्थः । ननु जन्यजनकभावसम्बन्धान्नियमोऽस्तु इत्यत्राह
सर्वप्रकारेति । इन्द्रियसम्प्रयोगजन्ये ज्ञाने आलयविज्ञानस्याश्रयतया
जनकत्वं वाच्यम्; तच्च क्षणिकत्वे न सम्भवति; ततोऽतिरिक्तश्च
संम्बन्धोऽनतिप्रसक्तो दुर्वच इति सर्वप्रकारेणापीत्युक्तमिति भावः ।
ननु कार्यशून्या सामग्री क्षणोपाधिश्चेत् सामग्रयाः क्षणिकत्वमावश्यकं;
अन्यथा क्षणोपाधित्वायोगादिति शङ्कायास्तादवस्थ्यादिति कथं दृष्टान्तहा-
न्युपपादनमित्यत्राह — गूढाभिप्राय इति । गूढाभिप्रायमेवावतारिका-
मुखेन व्यनक्ति—- तथाऽपीत्यादिना । अभिसन्धि प्रकाशयति-