This page has not been fully proofread.

390
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जढद्रव्य
 
तत्र साध्यवैकल्यं च घटादीनिदर्शयद्भिः युष्माभिरिव क्रमा-
त्प्रशमनीयम् । अस्ति च सोऽहमिति प्रत्यभिज्ञयास्माकं

तत्सिद्धिः । आलयविज्ञानसन्ततिविषयेयमिति चेत्; इदमपि परि-
भाषामात्रं ; प्रमाणाभावात् । ' नान्यदृष्टं स्मरत्यन्यः' इत
परिभाषाया निर्वाधत्वाच्च । * निरर्थकं चेदमालयविज्ञान-
 
1
 
आनन्ददायिनी
 
परिहरति--- घटादीनिति । प्रशमनप्रकारमाह-अस्ति चेति । दीपादि-
विषयप्रत्यभिज्ञावदन्यथासिद्धिमाशङ्कते — आलयेति । आलयः -- प्रवृ-
त्तिविज्ञानाश्रयः । प्रवृत्तिविज्ञानं प्रवर्तकं घटादिविज्ञानं । विज्ञानं-
ज्ञानस्वरूपमात्मेति सौगतपरिभाषा । तथाच आलयविज्ञानसन्तति-
विषयतया न स्थिरत्वसाधिकेति न दृष्टान्तासिद्धिरित्यर्थः । प्रमाणा-
भावादिति-क्षणिकत्वसाधकानुमानात्प्रागालयविज्ञानसन्ततिकल्पने प्रमा-
णाभावान्निष्प्रतिपक्षा प्रत्यभिज्ञा स्थिरत्वं साधयेदिति भावः । प्रत्यभि-
ज्ञायाः स्थिरविषयत्वेऽनुकूलतर्कमप्याह – नान्यदृष्टमिति । परिभाषा -
व्याप्तिः । तथाच नातिप्रसङ्ग इति भावः । आलयविज्ञानस्यास्थिरत्वे
बाधकतर्कान्तरमप्याह — निरर्थकं चेदमिति । आलयविज्ञानानङ्गीकारे
प्रवृत्तिविज्ञानस्य किञ्चित्सम्बन्धित्वाभावात्प्रवृत्तिः कस्यापि न स्यात्
सर्वस्य वा स्यात् अविशेषात् । तदङ्गीकारे तु यदालयविज्ञानसम्बन्धि
प्रवृत्तिविज्ञानं तस्यैव प्रवृत्तिं जनयतीति नियमस्सिध्यतीति तदङ्गी-
 
भावप्रकाशः
 
1 * निरर्थकमिति एतच्च जीवसरे विवेचयिष्यते ।