2025-01-21 07:38:51 by ambuda-bot
This page has not been fully proofread.
388
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
* न च त्वमपि कुत्येषु निरन्वयविनाशवित् ।
मत्सन्तानसमृद्ध्यर्थमिति मत्वा प्रवर्तसे ! ॥
आनन्ददायिनी
[जडद्रव्य
भुवनपरः । त्रयो लोका यस्येति बहुव्रीहिः । तथाच कस्यापि प्रवृत्तस्य
फलप्राप्तयभावात् प्रवृत्तिर्न स्यादिति भावः । ननु सन्तानैक्यात्प्रवृत्ति-
स्सम्भवतीत्यत्राह—नचेति । तथाच स्वानुभवबाध इति भावः ।
आदिशब्देन इच्छादिर्गृह्यते । विमतं स्थिरं वस्तुत्वात् आत्मवत्
भावप्रकाशः
फलभावनियतरूपाणां संस्काराणां प्रबन्धमेकत्वेनाध्यवसाय स एवाहं करो-
मीति व्यवहरति मुक्तये च प्रवर्तते । तदभिमानानुरोधेन च भगवन्तस्तथा-
गताः समुच्छेददृष्टिप्रपाततो विनेयजनारिरक्षिषया सन्तानैकतां दर्शयन्तः
कर्तृत्वादि व्यवस्थापयन्ति । तथाविधाया एव व्यवस्थातो वस्तु-
सिद्धिरिति चेदाह—ना सेत्यादि । न हि तत्वपरीक्षा पराङ्मुख-
मर्तानां संवृतिपतितानां बालजनानामभिनिवेशवशेन शक्यं तत्वं व्यव-
स्थापयितुम्! तदभिनिवेशस्य नैरात्म्यक्षणभङ्गविहितप्रमाणबाधितत्वात्,
इति कमलशीलः । तत्र विनेयजनाशयानुसारेण अतत्वोपदेशः वञ्चना-
मात्रमिति भावेन तद्दूषयति * न च त्वमपीति । अपिर्विरोधे । भव-
न्मतरीत्या अज्ञत्वे निरन्वयविनाशस्य ज्ञानित्वे सन्तानसमृद्ध्यर्थत्वस्य
च बोधो न सम्भवति-
6
अहनिसत्वदृष्टीनां क्षणभेदविकल्पना ।
सन्तानैक्याभिमानेन न कथञ्चित्प्रवर्तते ॥ ५४१ ॥