This page has not been fully proofread.

सरः]
 
त्रिगुणपरीक्षायां क्षणिकत्वविकल्पेषु षष्टस्यदूषणं
 
387
 
सर्वार्थसिद्धिः
 
स्यात् । ' *सर्वस्य च त्रिलोकस्य स्वप्रयोजनेच्छया हि प्रवृत्तिः !
सा फलार्थिनः फलिनश्च भेदे बाध्यते ।
 
आनन्ददायिनी
 
कत्वसाधकानुमानस्य तर्कबाधमप्याह - सर्वस्य चेति । त्रिलोकस्येति-
पात्रादित्वात्साधुः । बहुलग्रहणात् स्त्रीत्वाभावः । यद्वा लोकशब्दो
 
भावप्रकाशः
 
नाशौ कथमेकत्र समाविशतः ? कालभेदेन विरोधपरिहारस्य क्षणिक-
वाद्यसंमतत्वात् । किंच विनाशस्वभावः धर्मिणमभिसंबध्नाति न वा ?
आद्ये धर्मिण उदयानन्तरस्थायित्वं कथं द्वितीये तमनभिसंबध्नन् तत्स्व-
भावः कथं भवेत् ? अपि च-
 
-
 
ननु नैव विनाशोऽयं सत्ताकालेऽस्ति वस्तुनः ।
 
न पूर्वं न चिरात् पश्चात् वस्तुनोऽनन्तरं त्वसौ ॥ ३६७ ॥
एवं च हेतुमानेव युक्तो नियतकालतः ।
 
इत्यविद्धकर्णोक्तदूषणपार्रहाराय शान्तरक्षितेन द्विविधस्यापि विनाशस्य
वस्त्वनन्तरभावित्वनिरासेन तत्र त्वयाऽपि तथैवाङ्गीकारेण अत्र तद्विरो-
धेन विनाशस्वभावस्य वस्तुभूतोत्पादानन्तरभावित्वाभिधाने अविद्धकर्णोक्तं
दूषणं भवतैव स्थापितं स्यात् इति । मूढानां संतानावगाहिनी
कालतारतम्यधीरुपपद्यते इति शङ्कायामाह – ' * सर्वस्येत्यादि ॥
 
-
 
कर्तृत्वादिव्यवस्था तु सन्तानैक्यव्यवस्थया ।
 
कल्पनारोपितैवेष्टा नाङ्गं सा तत्वसंस्थितेः ॥ ५०४ ॥
 
इति शान्तरक्षितः । ' प्रचुरतराज्ञानतिमिरसङ्घातोपहतज्ञाना-
लोको लोकः आत्मनि तत्त्वान्यत्वासत्त्वादिविचारमवधूय विशिष्टहेतु-
 
25*