2025-01-21 07:38:51 by ambuda-bot
This page has not been fully proofread.
386
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापै
सर्वार्थसिद्धिः
[जडद्रव्य
1 * स्वरूपेण क्षणोपाधयः स्युः ; कालतारतम्यधीः 2 *कुत्रापि न
भवेत् । त(दा)थाच स्थिरशङ्काया एवानुदयात् निर्विषयमनुमानं
आनन्ददायिनी
स्वरूपेणोपाधित्वे स्वस्वावच्छिन्न कालस्यैव क्षणत्वात् सर्वेषां च स्वाव-
छिन्नकाल एव वृत्तेः कालतारतम्यं न स्यात् । स्वकालातिरिक्तकालवृत्तित्व-
(रूप)स्य वैषम्यस्यासम्भवात् । नन्विष्टापत्तिः; क्षणिकवादिनः सर्वस्यापि
क्षणकालवृत्तित्वादित्यत्राह -- तथाचेति । स्वावच्छिन्नकालमात्रस्य क्षण-
कालत्वात् तदतिरिक्तवृत्तित्वं हि स्थिरत्वं भवन्मते निरस्यं ! नचेदं कस्यचि-
दपि सम्भाव्यते! स्वकालवृत्तित्वस्य स्थैर्यवादिभिरप्यङ्गीकारात्; अतिरिक्तवृ-
त्तित्वे सन्देहाभावात् एतादृशक्षणिकत्वसाधने सिद्धसाधनता स्यात्। तथाच
सन्दिग्धे न्यायः प्रवर्तत इति अनुमानमपि निर्विषयं स्यादित्यर्थः । क्षणि-
भावप्रकाशः
'* स्वरूपेणेति-उदयानन्तरस्थायिस्वरूपेणेत्यर्थः । * कुत्रापि न भवे-
दिति — अयं च दोषः ;
उदयानन्तरस्थायि स्वरूपं यच्च वस्तुनः ।
तदुच्यते क्षणस्सोऽस्ति यस्य तत् क्षणिकं मतम् ॥ ३८८ ॥
इति शान्तरक्षितपरिष्करणेऽपि बोध्यः । क्षणिकत्वानुमितेः शुद्ध-
स्वरूपावगाहित्वे साध्यस्य पक्षादविशिष्टतया साधनप्रयासवैफल्यं । उदया-
नन्तरस्थायित्वविशेषिततदवगाहित्वे अतद्रूपपरावृत्त स्वरूपावगाहिविकल्प-
स्येव असदर्थावगाहित्वेन भ्रान्तत्वमिति स्फुटम् । तत्र पञ्चिकायां उत्पा-
दानन्तरविनाशिस्वभावो वस्तुनः क्षण उच्यते ; स यत्रास्ति स क्षणिक
इति कमलशीलोक्तिरापातरमणीया । तथाहि ——— उत्पादकाले विनाशस्य
विनाशकाले उत्पादस्याननुभवेन करणाकरणे इव परस्परविरुद्धावुत्पादवि-