2025-01-21 07:38:50 by ambuda-bot
This page has not been fully proofread.
सरः]
त्रिगुणपरीक्षायां क्षणिकशब्दार्थविकल्पाः तद्दृषणानिच
385
सर्वार्थसिद्धिः
ज्ञया च बाधः प्रागुक्तः । न चतुर्थः ; उक्तवाधादेव । क्षणेतरस्य
तथात्वे खपुष्पवदसत्त्वप्रसङ्गस्य दुर्वारत्वात् । त्वन्मते च खपुष्प-
निदर्शनेन प्रसञ्जनं युक्तं । एवमपि हि ब्रूथ ! –
तस्माद्वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रयः ।
तदभावे च तन्नेति वचनादेव तद्गतेः ॥
इति । अन्येऽपि केचिदाहुः -
यस्मिन्ननित्यता नास्ति कार्यताऽपि न विद्यते ।
तस्मिन् यथा खपुष्पादौ इति शक्यं हि भाषितुम् ॥
इति । न पञ्चमः ; तद्देशतद्वर्तिनोरिव कालतद्वर्तिनोरैक्यस्य
प्रत्यक्षेण बाधात् । तत एव न षष्ठः । यदा हि घटादयः
आनन्ददायिनी
प्रतिहतिमाह — क्षणेतरस्येति । विवादाध्यासितमसत् क्षणेतरत्वे सति
क्षणद्वयसम्बन्धशून्यत्वात् इत्यर्थः । ननु सर्वत्र प्रामाणिकस्यैव
दृष्टान्तत्वात् खपुष्पनिदर्शनेन प्रतिरोधो न युक्त इत्यत्राह—–त्वन्मते
चेति । क्षणिकत्वसाधने असतो विपर्ययदृष्टान्तकरणादिति भावः ।
तदीयसंमतिमाह—–एवमपीति । ननु व्यतिरेकव्याप्तिः कथं गृह्यते ?
यदक्षणिकं तदसत् यथा खपुष्पमिति व्याप्तिग्रहाधिकरणस्याप्रामाणिक-
त्वात् प्रामाणिकस्यैव सर्वत्र दृष्टान्तत्वादिति शङ्कायां ' तदभावे च
तन्न' इति वचनादपि व्यतिरेकव्याप्तेरवगमो यस्मात्तस्माद्वैधर्म्यदृष्टान्ते
व्यतिरेकव्याप्तिग्रहे आश्रयापेक्षानियमो नास्तीत्यपि ब्रूथेत्यर्थः । तथाच
प्रतिरोधो न (सम्भवति) युक्त इति भावः । अन्येऽपि — सौगतैकदेशि -
नोऽपि । अनित्यता — क्षणिकत्वं । अन्ये नैयायिकैकदेशिन इत्य (परेड)-
प्याहुः । बाधादिति——अस्मिन् क्षणे अयं वर्तत इति भेदग्राहित्वा-
त्प्रत्यक्षस्येति भावः । तत एवेति क्षणोपाधेश्च भेदग्राहिप्रमाण-
बाधादेवेत्यर्थः । भेदग्रहमेवोपपादयति-- य (दि) दा हीति । सर्वपदार्थानां
SARVARTHA.
25