2025-01-21 07:38:48 by ambuda-bot
This page has not been fully proofread.
384
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
तथाहि — क्षणिकत्वं नाम क्षणसंभवत्वं वा ? क्षणकालसम्ब-
न्धित्वं वा ; क्षणमात्रवर्तित्वं वा ? क्षणद्वयसम्बन्धशून्यत्वं वा ?
क्षणकालत्वं वा ? तदुपाधित्वं वा ? नाद्यः; सिद्धसाधनात् ।
स्थिरमपि (हि) नस्सामग्रचा क्षण सम्भव (ती) ति । न द्वितीयः तत
एव । कालमेवानिच्छतस्ते कोऽसौ क्षणकालः ? कश्च तत्सम्बन्धः ?
तदभ्युपगमे सिद्धान्तबाधः । अत एव न तृतीयोऽपि । प्रत्यभि-
आनन्ददायिनी
बाधो न प्रदर्श्यत इति बाधबहुत्वोपपादनार्थं साध्यविकल्प इति न
संगच्छत इति मन्दधियां प्रतिभाति ; तथाऽपि सर्वविकल्पकोटिष्वपि
बाघप्रदर्शनं न प्रतिज्ञार्थः । किंतु विकल्पितकोटिपु यथासम्भवं
तत्प्रदर्शनं प्रतिज्ञार्थ इति द्रष्टव्यम् । क्षणिकत्वं नामेति - क्षणे भवः
क्षणे जातः क्षणोऽस्यास्तीत्यर्थविवक्षायां कुमुदादित्वात् ठच् । अत
इनिठनाविति वा उनि क्षणिकशब्दस्य निष्पत्तेः । विनयादित्वाद्वा
स्वार्थिकठकि संज्ञापूर्वक परिभाषया वृद्ध्यभावाद्वा व्युत्पत्तिसम्भवात्
अवधारणविवक्षातदभावाद्यार्थिकार्थविवक्षानुसारेण विकल्पसम्भवात् नास
म्भावितविकल्पदोष इति द्रष्टव्यं । तत एवेति -- स्थिरस्यापि सामग्री-
क्षणे सम्बन्धसम्भवेन सिद्धसाधनादित्यर्थः । व्याप्तिग्राहकाभावाद्वयाप्य-
त्वासिद्धिरिति चाह —— कालमेवेति । सिद्धान्तबाधः – अपसिद्धान्तः ।
' निराधारा निर्धर्मकाश्च रूपादयश्चत्वारः पदार्थाः ' ।
वात्सीपुत्रास्तु शब्दादन् पञ्च वैभाषिका विदुः ।
शब्दात्मानश्चतुर्व्वेव केचिदित्यपरेऽब्रुवन् ॥
इति परिगणनेन कालानङ्गीकारादिति भावः । अतएव -
अपसिद्धान्तादिप्रसङ्गादेव । अक्षणिकत्वे सत्त्वं न स्यादिति तदीयतर्कस्य