2025-01-21 07:38:45 by ambuda-bot
This page has not been fully proofread.
सरः]
वासनाफलव्यत्रस्थानुपपत्तिः क्षणिकत्वसाधनान्तरानुवादश्च 383
तत्वमुक्ताकलापः
जगत्स्यात् क्षणोपाधिवच्चेत वाघो
1
सर्वार्थसिद्धिः
सत्त्वात् '* भासमानत्वाद्वा । अत्र स्यादित्यनेन अक्षणिकताया-
मसत्त्वप्रसङ्गस्सूच्यते । अर्थक्रियाकारित्वं हि सच्चम् ! तच्च कुर्व-
त्क्षणस्यैवास्ति । अकुर्वत्क्षणस्य तु तदभावादसत्त्वं प्राप्तमिति ।
घटजलधरादौ दृष्टान्तिते साध्यवैकल्यं क्रमेण कथञ्चित्परि-
हर्तव्यं ; इह तु न तथेत्यभिप्रायेण क्षणोपाधिवचनम् । इति -
रौचित्यादाक्रष्टव्यः । अत्र बाधोक्तिस्साध्यविकल्पेन बहुधा भाव्या
आनन्ददायिनी
पन्नं । प्रयोगप्रदर्शनमिदं तन्मते उदाहरणोपनययोरेव प्रयोक्तव्यत्वात् ।
आदिशब्दार्थमाह – भासमानत्वाद्वेति । स्यादित्यनेनेति—स्यादित्यस्य
सत्त्ववाचित्वात् क्षणिकं स्यादिति समभिव्याहारेण सत्त्वव्यापकं क्षणिक-
वमिति गम्यमानत्वादिति ) त इति भावः । क्षणिकत्वस्य सत्त्वव्यापकत्वे
अनुकूलतर्कमाह—अर्थक्रियाकारित्वमिति । क्षणिकत्वाभावे कुसूलस्थानां
बीजानामङ्कुरादिरूपकार्यजनकत्वरूपकुर्वत्त्वाभावात् सत्त्वं न स्यात् ;
क्षणिकत्वे तु पूर्वपूर्वेषां क्षणानां उत्तरोत्तरक्षणजनकत्वात् कुर्वत्त्वं
सिध्यतीति भावः। इतिरिति - तथाच क्षणोपाधिवदितीति मूले सम्बन्धः ।
बाधोक्तिरिति - विशेषानुपादानादिति भावः । यद्यपि क्वचित्कचिद्विकल्पे
भावप्रकाशः
लाघवादाह '* भासमानत्वादिति - विषयत्वादित्यर्थः । ज्ञानविषयत्वं
ज्ञानजनकत्वमिति वैभाषिकसिद्धान्तेन अक्षणिकत्वे जनकताऽनुप-
पत्त्या सत्त्वहेतुवदस्यपि क्षणिकत्वसाधकता संभवतीति भावः ।