This page has not been fully proofread.

382
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
तत्वमुक्ताकलापः
 
मेयत्वाद्यैर्विगीतं क्षणिक मह
 
सर्वार्थसिद्धिः
 
तादृशफलसिद्धिर्युक्ता ; त्वन्मते तु त ( देत) *त्सन्ततिव्यवस्था-
पकाभावात् तत्रैव फलं बनातीति दुश्शको नियम इति भावः ॥२९
2* क्षणभङ्गसाधनान्तरं दूषयितुमनुवक्ति मेयत्वाद्यैरिति ।
 
इह पक्षदृष्टान्तविकल्पार्हे वस्तुजाते । विगीतं क्षणिकं
 
आनन्ददायिनी
 
मेयत्वात्
 
ननु क्षणिकत्वानुमानं पूर्वं दूषित (मिति) मेव पुनस्तद्वृषणे पौनरुक्तय-
मित्याशङ्कयावतारयति-क्षणभङ्गेति । इहेत्यस्य जगत्परत्वेऽनन्वयमाशङ्कय
तस्या (इहशब्दा) र्थमाह----पक्षदृष्टान्तेति - विगीतं - क्षणिकत्वेन विप्रति-
 
भावप्रकाशः
 
--
 
तम्। '* सन्ततिव्यवस्थापकाभावादिति । क्षणिकत्वपक्षे कार्यक्षणपूर्वक्ष-
णानां सर्वेषामन्वयव्यतिरेकयोरविशेषेण सिद्धान्तिवदुपादानोपादेययोर-
भेदानङ्गीकारेण स्वोपादानवलव्यवस्थानिर्णयासंभवेन-
स्वोपादानबलोद्भूताः कलापोत्पादकाः पृथक् ।
 
इति शान्तरक्षितोक्तिरनुचिता । एतेन-
 
सहकारिकृतश्चैवं यदा नातिशयः क्वचित् ।
 
सर्वदा निर्विशेषैव तदा सन्ततिरिष्यते ॥
 
४३२
 
इति भदन्तयोगसेनोक्तदूषणमपरिहार्यम् । सन्ततिदूषणविस्तरस्तु श्लोक-
वार्तिकादौ बोध्य इति भावः । क्षणिकत्वसाधने सत्त्वहेतोरेकस्य ज्ञान -
श्रियाऽभिधानेऽपि तदविशेषेणान्यस्यापि हेतास्तन्मते क्षणिकत्वसाधकत्वं
संभवतीति स्वस्य बौद्धमतप्रावीण्यं दर्शयन्नवतारयति 2 क्षणभङ्गसाध-
नान्तरमित्यादिना 3 * मेयत्वादिति — मेयत्वमविसंवादिज्ञानाविषयत्वं ।