2025-01-21 07:38:39 by ambuda-bot
This page has not been fully proofread.
सरः]
क्षणभङ्गवादे संतानैक्यव्यवस्थानुपपत्तिः
381
तत्व मुक्ताकलापः
निजफलनियतिर्वासनानां च न स्यात् कार्पासे
रक्ततादि क्रमविपरिणमत्संस्कृतद्रव्य तस्स्यात् ॥ २९
स्यादिति । यदप्याहु:-
सर्वार्थसिद्धिः
यस्स्मिन्नेव हि सन्ताने आहिता कर्मवासना ।
फलं तत्रैव बध्नाति कार्पासे रक्तता यथा ॥
इति ; कर्मवासनेत्यनुभववासनाया उपलक्षणं । तदपि दूषयति-
निजफलनियतिर्वासनानां च न स्यादिति । सन्तानैक्ये सिद्धे
हि यस्मिन् तस्मिन्निति निर्देशस्स्यादिति भावः । दृष्टान्त-
स्तर्हि कथमित्यत्राह—कार्पास इति । रञ्जकद्रव्यविशेष संस्कृत-
वीजावयवानुवृत्त्या कार्यस्रोतोविशेषनियमे यथादर्शनं तत्र
आनन्ददायिनी
सर्वदेशक्षणसन्तानजनकत्वात् सर्वे सर्व (स्यापि ) स्य सन्ताना इति पूर्वव-
(र्वैत)देतद्देशसन्तांनैक्यनियमो नास्तीति भावः । ननु क्षणिकत्वपक्षे
पाकेषुविक्षेपादौ वासनाश्रयस्य नाशादुत्तरो (नाशात्तदुत्तरक्षणेषु विक्लत्ति-
देशान्तरगमनहेतुक्रिया न स्यादित्याशङ्कय सन्तानैक्यान्न दोष इति सिद्धा-
न्तदीपिकोक्तमनुवदति-यदप्याहुरिति । कर्मवासना - वेगादिसंस्कारः ।
यदा पाकादिक्रियाशक्तिः तत्रैव तण्डुलादिसन्ताने विक्लत्त्यादिक्रियां
जनयतत्यिर्थः । रज्ञ्जकद्रव्येति - स्थिरवादे कार्पाससन्तानव्यवस्थासम्भ-
वाद्युज्यते ; क्षणिकवादे तन्नियमो न स्यादिति दृष्टान्तासिद्धिश्चेति
भावः ॥ २९ ।