2025-01-21 07:38:40 by ambuda-bot
This page has not been fully proofread.
380
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
क्षणानाम् । सन्तानैक्यव्यवस्था
सर्वार्थसिद्धिः
'*अतीन्द्रियस्य (तु) तस्यादर्शनात् । दृश्यस्य तु वह्निधूमत्वादेरति-
प्रसङ्गित्वात् । न द्वितीयः ; यस्मिन् देशादौ यद्वर्तते तस्मिन्
।
जायमानस्य तत्कारणमिति नियमो न सम्भवति ; कार्यक्षणस्य
कारणदेशादिवर्तित्वे कारणदेशादेः क्षणद्वयापत्तेः । तथाचान-
न्तरक्षणयोगेऽपि को बाधः ? अतः स्थिरदेशादिकमनभ्युप-
गच्छतः तत्प्रयुक्तनियमायोगात् अतिप्रसङ्गस्तदवस्थ एव । ननु
यद्देशादिक्षणवर्ती कारणक्षणः तत्कार्यदेशादिक्षणे स्वकार्यमारभत
इति नियम इति चेन्न ; देशादिक्षणद्वयेऽपि कार्यकारणव्यव-
स्थाया दुःस्थत्वात् । त ( देत ) दभिप्रेत्याह – सन्तानैक्यव्यवस्था न
'आनन्ददायिनी
एव पूर्वापरकालवर्तित्व(त्वादि) रूपः । तस्येति - विशेषस्य कार्यकारणयो-
रदर्शनादित्यर्थः । अतिप्रसङ्गित्वादिति - तेन रूपेण पूर्वक्षणापेक्षया पूर्वा-
परभावित्वादित्यर्थः । तदिति – तद्देशे तत्पूर्ववर्तीत्यर्थः । क्षणद्वयापत्तेः-
कार्यकारणद्वयाधिकरणक्षणद्वयकालवर्तित्वापत्तेरित्यर्थः । तथाचेति-
एतावन्तं स्थितं कालं कः पश्चान्नाशयिष्यति ।
इति न्यायादिति भावः । ननु कार्यकारणयोरेकदेशवर्तित्वं मास्तु ;
अपि तु एकदेशसन्तानवर्तित्वं ; तथा च नातिप्रसङ्ग इति शङ्कते -
नन्विति । देशादीति —– तथाच पूर्वदेशलक्षणस्य (स्व) पश्चाद्भावि-
1
भावप्रकाशः
' * अतीन्द्रियस्य त्विति - एतेन शक्तयभिधानमप्यकिञ्चित्करमिति व्यज्ञ्जि-