This page has not been fully proofread.

रसः ]
 
परमते कार्यंत्वनियामकविकल्पः दूषणं च
 
379
 
सर्वार्थसिद्धिः
 
आदिशब्देन दिक्संग्रहः । *अयमर्थः - सर्वं क्षणिकमिति वदतस्ते
कस्यचित् किञ्चित्प्रति कार्यत्वं किमनन्तरकालभावित्वमात्रात्
उत तद्विशेषात् ? आद्ये त्रैलोक्योदरवर्तिनः पूर्वक्षणास्सर्वे तद-
नन्तरभाविनां सर्वेषां क्षणानां कारणानि स्युः । द्वितीयेऽप्यसौ
विशेषः किं देशाद्युपाधिनिरपेक्षः तत्सापेक्षो वा ? नाद्यः ;
 
आनन्ददायिनी
 
क्षणिकत्वपक्षेऽपि वीचीतरङ्गन्यायेन शब्दसंतानानामिव व्यवस्थापक-
कार्यकारणभावस्स्यात् इत्यत आह — अयमर्थ इति । देशाद्युपाधि-
निरपेक्षः --- तदघटितः कारणकार्यधर्म इत्यर्थः । तत्सापेक्षः -- एकदेश
 
भावप्रकाशः
 
यथा हि नियता शक्तिः बीजादेरङ्कुरादिषु ।
अन्वय्यात्मवियोगेऽपि तथैवाध्यात्मिके स्थितिः ॥
पारम्पर्येण साक्षाद्वा क्वचित्किञ्चिद्धि शक्तिमत् ।
 
ततः कर्मफलादीनां संबन्ध उपपद्यते ॥
नियमादात्महेतूत्थात् प्रथमक्षणभाविनः ।
 
यद्यतोऽनन्तरं जात द्वितीयक्षणसन्निधिः ॥
 
५०२
 
५०३
 
५१८
 
तत्तज्जनयतीत्याहुरव्यापारेऽपि वस्तुनि ।
 
विवक्षामात्रसंभूतसंकेतानुविधायिनः ॥
 
५१९
 
अन्यानन्तरभावेऽपि किञ्चिदेव च कारणम् ।
 
तथैव नियमादिष्टं तुल्यं चैतत् स्थिरेष्वपि ॥
 
इति । तदूषयन् मूलार्थमाह - * अयमर्थ इत्यादिना ।
 
५३१