This page has not been fully proofread.

378
 
सव्याख्यासर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
तत्वमुक्ताकलापः
 
[जडद्रव्य
 
कालानन्तर्य साम्ये क्षणिकवपुषि ते देशकालाद्यु-
पाधौ सर्वे पूर्वे भवेयुस्तदुपरिभवतां कारणानि
सर्वार्थसिद्धिः
 
तज्जन्यत्वं हि तद्धेतुकत्वं । तेन कथं हेतुनैरपेक्ष्यसाधनम् ?
हेत्वन्तरनैरपेक्ष्यमपि दुर्वचमित्युक्तं । अतः क्रमभावि सहकारि-
विशेषात् कार्यान्तरमिव स्वनाशमपि स्वयमुत्पादयतु नाम ! न
ततः क्षणिकत्वं सिद्धयेदिति । वाधवामीषां प्रागुक्तप्रत्यभिज्ञया
स्पष्टः । आदिशब्दः प्रदर्शितयोरपसिद्धान्तप्रतिज्ञाविरोधयो-
स्सङ्ग्रहार्थः । प्रतिकूलतर्कप्रतिहतिमप्याह - कालानन्तर्येति ।
आनन्ददायिनी
 
हेतुसाध्ययो (साध्येनहेतो) विरुद्धत्वादित्यर्थः । यद्वा प्रतिज्ञावाक्यस्य
हेतुवाक्येन विरुद्धत्वादित्यर्थः । विरोधपरिहारमाशङ्कय परिहरति —
हेत्वन्तरेति । तद्वदेव सहकारिणामित्यर्थः । ननु सहकारिसापेक्षत्वेऽ-
प्युत्पत्त्यनन्तरमेव ध्वंससम्भवात् क्षणिकत्वं स्यादित्यत्राह - क्रमभावीति ।
ध्वंसजनने सहकारिणामाद्यक्षण एव भावित्वमित्यत्र नियामकाभावात् ;
यदा कदाचित्सहकारिलाभे प्रतियोगिनो ध्वंसजनकत्वेऽपि न क्षणिकत्व-
सिद्धिरित्यर्थः ॥ २८ ॥
 
पूर्वशेषत्वान्न पृथक्संगतिरित्यभिप्रायेणाह – प्रतिकूलेति । ननु
 
भावप्रकाशः
 
क्षणभङ्गपक्षे कुमारिलोक्तदूषणान्युद्धर्तुकामेन शान्तरक्षितेन तत्व-
 
संग्रह इत्थमुक्तम्---