2025-01-21 07:38:28 by ambuda-bot
This page has not been fully proofread.
[सरः ]
तृतीयतुरीयकपञ्चमषष्टकल्पानां दूषणम्
377
सर्वार्थसिद्धिः
भावस्वरूपापेक्षया त्वानन्तर्यनियमे भाव एव हेतुस्स्यादिति
कथं हेतुनैरपेक्ष्यं ? तदतिरिक्तनैरपेक्ष्यं विवक्षितमिति चेन्न ; तद्व-
देव सहकारिणामप्यवर्जनीयत्वादिति । पञ्चमे त्वसिद्धिर्व्याघातश्च ।
ननु कथं ध्रुव भाविशब्देन तच्चविवक्षा शङ्कयते ? इत्थम् ;
यद्यतो भिद्यते न तत्तस्य ध्वंसः यथा रूपस्य रसः । ध्वंसस्तु
कस्यचिदेव भवतीति तदात्मकः । अतः स्वोत्पत्तावेव स्वात्मनि
ध्वंसे सन्निहिते कथं क्षणान्तरं प्राप्नुयादिति ? तत्रेदं ब्रूमः ;
ततो भिन्नस्यापि तद्धंसत्वं यथा दर्शनं स्यात् । अन्यथा
भिन्नस्य भिन्नकालस्य च कारणत्वादिकमपि हीयेत अविशेषात् ।
स्वात्मन एव स्वनाशात्मकत्वे पश्चादिव स्वकालेऽपि स्वाभावसिद्धेः
स एव सर्वापह्नवस्स्यादिति । तज्जन्यत्वे हेतौ प्रतिज्ञाविरोधः ।
आनन्ददायिनी
भाव एवेति—अनन्यथासिद्धनियतपूर्ववृत्तित्वादिति भावः । कथमिति–
तथाच बाध इति भावः । तद्वदेवेति – प्रतियोगिन इव मुद्गरादे-
रप्यन्वयव्यतिरेकसत्त्वादिति भावः । पञ्चम इति-ध्वंसप्रतियोगिनोरैक्या-
नभ्युपगमात् भावाभावयोः परस्परविरोधिनोरैक्यस्य विरुद्धत्वादित्यर्थः ;
अन्यथा भावस्सर्वदा स्यान्न स्याद्वेति न क्षणिकत्वासिद्धिरिति भावः ।
नन्वस्याः कोटेरुत्थितिरेव न सम्भवति ; शब्दस्य तद्बोधनासामर्थ्यात् ।
तथाच असम्भवाद्विकल्पदोषः । तथा भावानां सहेतुकत्वात् तद-
(भेदे अ) हेतुकत्वं वा कथं ? ततः क्षणिकत्वं वा कथं सिध्येत् ?
इति शङ्कामाशङ्कय परिहरति-नन्वित्यादिना । अन्यथेति - पूर्व-
क्षणानामप्युत्तरक्षणहेतुत्वं न स्यादित्यर्थः । प्रतिज्ञाविरोध इति-
;