2025-01-21 07:38:27 by ambuda-bot
This page has not been fully proofread.
376
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
कीदृशं च ध्वंसस्य निस्स्वभावत्वं ? यदि यत्किञ्चित्स्वभाव-
विरहः ; तत्स्वलक्षणेऽपि समानं । सर्वस्वभावविरहस्तु ध्वंसेऽप्य-
सिद्धः । अन्यथा कथमस्य पक्षीकारः ? ध्वंसरूपतया सिद्ध-
स्येति चेत्; तर्हि तत्स्वभावस्य कथं सर्वस्वभावविरहः ? अपि च
अस्य प्रागसत्त्वे हेत्वपेक्षा दुर्वारा । प्राक्सत्वे तु भावापह्नवः ।
तत एवाभावस्याप्यभाव इति सर्वाभावस्स्यात् । तृतीये च
स एव क्षणो यस्य स तत्क्षणः तस्य भावस्तत्क्षणत्वं । तदा ध्रुव-
भावि - सहभावीत्यर्थः । अयमपि हेतुरसिद्ध एव । न (हि) च
प्रध्वंसप्रतियोगिनोर्यौगपद्यसम्भवः; सम्भवे (च) वा भावः पश्चा-
दपि किं न स्यात् ? अनुक्षणशब्दोपचरितस्तु हेतुरनन्तरक्षण-
वर्तित्वं । तत्रापि भावोत्पत्त्यपेक्षयाऽनन्तर्यविवक्षायामसिद्धिः ।
आनन्ददायिनी
।
ननु तुच्छत्वान्न प्रतियोगिविरोध इत्यत आह-ध्वंसस्य चेति ।
द्वितीये दूषणमाह- कीदृशं चेति । तति — तद्धुंसत्वस्यैव स्वभा-
वत्वादित्यर्थः । अस्येति – ध्वंसस्येत्यर्थः । भावापह्नव इति-ध्वंसकाले
प्रतियोगिनोऽसंभवादिति भावः । तत एवेति यत एव प्रतियोगिनोऽ-
भावः ततः प्रतियोग्यप्रसिद्ध्या भावोऽपि
मतप्रसङ्ग इति भावः । न (ही) चेति
--
न स्यादिति माध्यमिक-
विरोधादिति भावः ।
संभवे (वे) चेति - विरोधाभावादिति भावः । उपचारतस्त्विति—
अनुशब्दस्य ' प्रादयो गताद्यर्थे ' इति अनुयातः क्षण इति समासे कालवा-
चि(त्वात्)त्वेन बहुव्रीहिसमासे चान्यपदार्थलक्ष ( णकतया) कत्वात् तत्स्थ-
वाचि (त्वमुपचारेणेत्यर्थः) त्वाभावात् तेनोपचरितो लक्षित इति भावः ।