This page has not been fully proofread.

सरः]
 
द्वितीयकल्प दूषणम्
 
375
 
1
 
सर्वार्थसिद्धिः
 
* ध्वंसस्य च तुच्छत्वे तत्कालेऽपि स्वकाल इव भावानां सत्त्व-
प्रसङ्गाच्च । तथाच क्षणभङ्कं प्रतिज्ञाय स्थिरवादं साधयसि ।
 
आनन्ददायिनी
 
भावानां सत्त्वं न स्यादिति ; तथाच माध्यमिकमतापात इति भावः ॥
 
भावप्रकाशः
 
विज्ञप्तिमात्रतासिद्धिर्धीमद्भिर्विमलीकृता ।
 
1
 
इत्याद्युक्तिरसङ्गतेति भावः । * ध्वंसस्य च तुच्छत्वे इति-
प्रध्वंसो भवतीत्येव न भावो भवतत्यियम् ।
 
अर्थः प्रत्याय्यते त्वत्र न विधिः कस्यचिन्मतः ॥
ध्वंसनाम्नः पदार्थस्य विधाने पुनरस्य न ।
 
वस्तुनो जायते किंञ्चिदित्येतत्किं निवर्तते ? ॥
 
२८९
 
३८१
 
इत्युक्तिरप्यनुचिता । भवताऽपि वस्तुरूपनाशाङ्गीकारेण तत्र विधिरूप-
ताया अत्र तद्वैलक्षण्यस्य च नियामकाभावात् । ध्वंसनाम्नः पदार्थस्य
विधाने वस्तुनो ध्वंसस्य च परमार्थत्वेन उभयोस्संबन्धस्संभवति ।
एकस्य वस्तुता अन्यस्य चावस्तुत्वं यदि तदा वस्त्ववस्तुनोस्संबन्धो
न संभवति । एतेन —
 
भावध्वंसात्मनोश्चैवं नाशस्यासत्त्वमिष्यते ।
 
वस्तुरूपनियोगेन न भावाभावरूपतः ॥
 
३८२
 
इत्येतद्विवरणपञ्चिकायां ' यदि हि स्वभावनिषेधलक्षणो विनाशः तेषा-
मसन् स्यात् तदा नित्यत्वमेषां स्यात् यावता स्वभावनिषेधलक्षणो
नाशस्स्वयमसद्रूपोऽस्त्येवेति कथं नित्या भवेयुः ? ' इत्युक्तिरप्यपास्ता ;
सदसतोस्संबन्धानुपपत्तिर्बुद्धिसरे विवेचायिष्यते इति भावः ॥