This page has not been fully proofread.

372
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
तत्वमुक्ताकलापः
 
[जडद्रव्य
 
जन्मन्येवोपरोधात क्षणिकमिह जगत्सर्वमित्यप्य-
सारम् । लिङ्गं ह्येष्यत्त्वमात्रं जननविधुरता तत्क्षणा-
नुक्षणत्वे तत्त्वं तज्जन्यता वा तदिदमनियमासिद्धि-
बाधादिदूष्यम् ॥ २८ ॥
 
सर्वार्थसिद्धिः
 
असारं- न्याय्यादन्यदित्यर्थः । तत्र हेतुं विकल्पयति- लिङ्गमिति ।
एवं विकल्पिते यथासम्भवं दोषानाह - तदिदमिति । तथाहि-
तत्राद्ये तावत् यत् यस्य ध्रुवं भविष्यति न तत्तस्य हेतुसापेक्षं
नाशश्च जातानां ध्रुवभावीत्युक्तं स्यात् । तदा कस्यचिदङ्कुरस्य
आनन्ददायिनी
 
मूलस्यायमर्थः -- उत्पन्नानां भावानां विनाशस्य ध्रुवभवितृतया हेत्वपे-
क्षारहितत्वात् जन्मन्येवोपरोधात्सम्बन्धात् सर्वं जगत् क्षणिकमिति ।
तत्र किं ध्रुवभवितृत्वम् ? इति विकल्पयती (विकल्पपरत्वमभिप्रे) त्याह-
तत्रेति । एष्यत्त्वमवश्यम्भावित्वमात्रं । जननविधुरता - उत्पत्त्यभावः ।
तत्क्षणत्वं ——भावकालत्वं । अनन्तरक्षणवर्तित्वमनुक्षणत्वं । तत्त्वं—
प्रतियोगिस्वरूपत्वं । तज्जन्यत्वं - - प्रतियोगिजन्यत्वं । ध्रुवभवितृ (ध्रुव-
भावित्व) शब्देन एतेषां लाभो यथा संभवति तथोत्तरत्र स्वयमेव
दर्शयिष्यति । तेषां समुच्चित्य प्रत्येकम (प्रत्येकं प्राप्तय) भावादाह-
यथासंभवमिति । तत्र क्रमेण दूषणानि वक्तुं प्रतिजानीते - तथाहीति ।
- ।
अनियमो - व्याप्तयभावः । असिद्धिः हेत्वसिद्धिः । बाधः साध्या-
भावनिश्चयः । कस्यचिदिति — व्यभिचारेण व्याप्तयभावादित्यर्थः ।
 
-